________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 876 // तजातादि चेहासौ गण्यते, दशस्थानकानुरोधाद्, अथवा कथञ्चिदेकार्थिके शब्दग्रामे यः कथञ्चिद्भेदः स विशेष: स्यादिति प्रक्रमः। दशममध्ययनं इय त्ति पूरणे, यथा शक्रः पुरन्दर इत्यत्रैकार्थे शब्दद्वये शकनकाल एव शक्रः पूरणकाल एव पुरन्दर एवंभूतनयादेशादिति, दशस्थानम्, अथवा दोषशब्द इहापि सम्बद्ध्यते, ततश्च न्यायोद्वाहणे शब्दान्तरापेक्षया एकार्थिकःशब्दो नाम यो दोष इति / अयमति च सूत्रम् 743 अग्न्यादिदोषसामान्यापेक्षया विशेष इति 4, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषो भवति, न शस्त्रचेहोक्तो, दशस्थानकानुवृत्तेः। अथवा कारणे- कारणविषये विशेषो- भेदो यथा परिणामिकारणं मृत्पिण्डोऽपेक्षाकारणं। दोषवस्त्वादिदिग्देशकालाकाशपुरुषचक्रादि, अथवोपादानकारणं- मृदादि निमित्तकारणं-कुलालादि सहकारिकारणं-चक्रचीवरादी विशेषाः त्यनेकधा कारणम्, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नो-वार्त्तमानिकोऽभूतपूर्व इत्यर्थोदोषो-गुणेतरः,सचातीतादिदोषसामान्यापेक्षया विशेष: 5, अथवा प्रत्युत्पन्नेसर्वथा वस्तुन्यभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः सदोषसामान्यापेक्षया विशेष इति 6, तथा नित्यो यो दोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बालकुमाराद्यवस्थाऽभावापत्तिलक्षण: सदोषसामान्यापेक्षया दोषविशेष इति 7, तथा हिअट्ठमे त्ति अकारप्रश्लेषादधिकंवादकाले यत्परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तद्दोषस्तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादिति, आह च-जिणवयणं सिद्ध चेव भन्नए कत्थई उदाहरणं। आसज्ज उ सोयारं हेऊवि कहिंचि भन्नेज्जा॥१॥ तथा- कत्थइ पंचावयवं ®न्यायोद्हणे..पेक्षया विशेष इति (मु०)। 0 जिनवचनं सिद्धमेव तथापि क्वचिदुदाहरणं भण्यते। श्रोतारमासाद्य हेतुमपि कुत्रापि कथयेत् / / 1 / / कुत्रचित्पश्चावयवं // 876