SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 877 // दशममध्ययनं दशस्थानम्, सूत्रम् 744 शुद्धवागनुयोगा: दसहा वा सव्वहान पडिकुटुं। (दशवै०नि० 49-50) इति ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो- दूषणं वादिनः सोऽपि दोषविशेष एव, अयं चाष्टम आदितो गण्यमान इति 8, अत्तण त्ति आत्मना कृतमिति शेषः / तथा उपनीतं-प्रापितं परेणेति शेषः / वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः ९।चकारयोर्विशेषशब्दस्य च प्रयोगो भावनावाक्ये दर्शितोऽथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति, दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु निजेऽहिअट्ठमे त्ति दृष्टम्, न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातम्, इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा- अहिंसा संजमो तवो (दशवै०नि०१/१) इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनम्, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह वचनानुयोगं भेदत आह दसविधे सुद्धावाताणुओगे पं० तं०- चंकारे 1 मंकारे 2 पिंकारे 3 सेतंकारे 4 सातंकरे 5 एगत्ते 6 पुधत्ते 7 संजूहे 8 संकामिते 9 भिन्ने १०॥सूत्रम् 744 // दसे त्यादि, शुद्धा- अनपेक्षितवाक्यार्था या वाक्-वचनं सूत्रमित्यर्थस्तस्या अनुयोगो- विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः / तत्र 'चंकारे'त्ति अत्रानुस्वारोऽलाक्षणिको यथा सुंके सणिंचरे (स्थानाङ्ग सू०६१३) इत्यादौ, ततश्चकार इत्यर्थस्तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगसमुच्चयान्वाचयावधारणपादपूरणाधिकवचनादिष्विति, तत्र इत्थीओ सयणाणि य (दशवै०नि०२/२) इति, दशधा वा सर्वथा न प्रतिकुष्टम् // 202628088
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy