SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 878 // दशममध्ययन दशस्थानम्, सूत्रम् 744 शुद्धवाग| नुयोगा: इह सूत्रे चकारः समुच्चयार्थः स्त्रीणांशयनानांचापरिभोग्यतातुल्यत्वप्रतिपादनार्थः १।मंकारे त्ति मकारानुयोगो यथा समणं व माहणं वा (स्थानाङ्ग सू०१३३) इतिसूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवे'त्यत्र सूत्रे जेणामेव इह मकार आगमिक एव, येनैवेत्यनेनैव विवक्षितप्रतीतेरिति 2, पिंकारे त्ति अकारलोपदर्शनेनानुस्वारागमेन चापिशब्द उक्तस्तदनुयोगो यथा अपिः सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणप्रश्नेष्विति, तत्र एवंपि एगे आसासे (स्थानाङ्ग सू०३१४) इत्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति 3, सेयंकरे त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति, तदनुयोगो यथा से भिक्खूवे (दशवै०नि०४/१०) त्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वित्यानन्तर्यार्थः सेशब्द इति, क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः / अथवा सेयंकार इति श्रेय इत्येतस्य करणं श्रेयस्कारः, श्रेयस उच्चारणमित्यर्थस्तदनुयोगो यथा सेयं मे अहिजिउं अज्झयण (दशवै०नि०४/१) मित्यत्र सूत्रे श्रेयोऽतिशयेन प्रशस्यं कल्याणमित्यर्थः, अथवा 'सेयकाले अकम्मं वावि भवई'त्यत्र सेयशब्दो भविष्यदर्थः 4, सायंकारे त्ति सायमिति निपातः सत्यार्थस्तस्माद्वर्णात्कार इत्यनेन छान्दसत्वात्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति 5, एगत्ते त्ति एकत्वमेकवचनंतदनुयोगोयथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तत्त्वार्थ०१/१) इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थम्, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति 6, पुहुत्ते त्ति पृथक्त्वंभेदो द्विवचनबहुवचने इत्यर्थस्तदनुयोगोयथा धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा (प्रज्ञा०१/५) इह सूत्रे धर्मास्तिकायप्रदेशा इत्येतद्बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति 7, संजूहे त्ति सङ्गतं- युक्तार्थं यूथं- पदानां पदयोर्वा समूहः // 878 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy