Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 387
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 879 // दशममा दशस्थानम्, सूत्रम् 745-747 दानानि, गतयः, मुण्डभेदाः, संख्याभेदा: संयूथम्, समास इत्यर्थस्तदनुयोगो यथा 'सम्यग्दर्शनशुद्धं सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा इति 8, संकामिय त्ति सङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितं तदनुयोगो यथा-'साहूणं वंदणेणं नासति पावं असंकिया भावा' इह साधूनामित्येतस्याः षष्ठ्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणाम कृत्वा अशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयम्, तथा अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ (दशवै०नि० 2/2) इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति 9, भिन्न मिति क्रमकालभेदादिभिर्भिन्नं- विसदृशं तदनुयोगो यथा-'तिविहं तिविहेण'मिति सङ्ग्रहमुक्त्वा पुनर् ‘मणेण मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नम्, क्रमेण हि तिविहमित्येतन्न करोमीत्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थं क्रमभेदः / तथाहिन करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहिमनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्त्यादिषु ऋषभस्वामिनमाश्रित्य सक्के देविंदे देवराया वंदति नमंसति (जम्बू० २/३५)त्ति सूत्रे, तदनुयोगश्चायंवर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति, इदंच दोषादिसूत्रत्रयमन्यथापि विमर्शनीयम्, गम्भीरत्वादस्येति / वागनुयोगतस्त्वर्थानुयोगः प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह___ दसविहे दाणे पं० सं०- अणुकंपा १संगहे 2 चेव, भये 3 कालुणितेति य 4 / लज्जाते 5 गारवेणंच 6, अहम्मे उण सत्तमे 7 // 1 // धम्मेत अट्ठमे वुत्ते 8, काहीति त ९कतंतित १०॥दसविधा गती पं० तं०-निरयगती निरयविग्गहगई तिरियगती तिरियविग्गहगई // 879 //

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444