Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाचं श्रीअभय वृत्तियुतम् भाग-२ // 894 // भेदाः सोऽभिगमरुचिर्येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिरभिगमपूर्वकत्वात्तद्रुचेरिति भावो, गाथाऽत्र-सो दशममध्ययन होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिट्ठ। एक्कारस अंगाई पइन्नयं दिट्ठिवाओ य॥१॥ (उत्तरा०नि० 28/23) इति, तथा दशस्थानम्, सूत्रम् 751 विस्तारो- व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैाता भवन्ति स निसर्गादिविस्ताररुचिर्ज्ञानानुसारिरुचित्वादिति, न्यगादिच-दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा। सव्वाहिं नयविहीहिं वित्थाररुई सम्यग्दर्शनमुणेयव्वो॥१॥ (उत्तरा०नि० 28/24) इति, तथा क्रिया- अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः / इदमुक्तं भवति-दर्शनाद्याचारानुष्ठाने यस्य भावतोरुचिरस्तीति स क्रियारुचिरिति, उक्तंच-नाणेण दसणेण य तवे चरिते य समिइगुत्तीसु। जो किरियाभावरुई सो खलु किरियारुई होइ॥ (उत्तरा०नि० 28/25) इति, तथा सङ्केपः- सङ्ग्रहस्तत्र रुचिरस्येति सङ्केपरुचिर्यो / ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सङ्केपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सझेपरुचिरिति भाव, आह च-अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायव्वो।अविसारओ पवयणे अणभिग्गहिओ य सेसेसु॥१॥ (उत्तरा०नि०२८/२६) इति, तथा धर्मे-श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्मं चारित्रधर्मं च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः, यदगादि- जो अत्थिकायधम्म सुयधम्म खलु चरित्तधम्मं च / सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्वो॥१॥ (उत्तरा०नि०२८/२७) इति 10 // अयं च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह सोऽभिगमरुचिर्भवति येनार्थतः श्रुतज्ञानं दृष्टम् / एकादशाङ्गानि प्रकीर्णकानि दृष्टिवादश्च // 1 // द्रव्याणां सर्वे पर्यायाः सर्वप्रमाणैः सर्वनयविधिभिर्येनोपलब्धा 894 // विस्ताररुचितिव्यः॥१॥ 0 ज्ञाने दर्शने तपसि चारित्रे च समितिगुप्त्योः। यो भावतः क्रियारूचिः स खल क्रियारुचिर्भवति // 1 // अनभिगृहीतकदृष्टिरविशारदः / प्रवचने संक्षेपरुचिरिति ज्ञातव्यः शेषेष्वनभिगृहीतः॥ 1 // 0 योऽस्तिकायधर्म श्रुतधर्मं खलु चारित्रधर्मं च। जिनाभिहितं श्रद्धधाति स धर्मरुचिरिति ज्ञातव्यः॥१॥
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444