Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 892 // दशममध्ययन दशस्थानम्, सूत्रम् 751 निसर्गादिसम्यग्दर्शनभेदाः इत्यादौ सूत्रे यावत्करणाद् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, सदेवे त्यादि, सह देवैर्वैमानिकज्योतिष्कैर्मनुजैनरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्त्तत इति सदेवमनुजासुरस्तत्र लोके-त्रिलोकरूपे उरालत्ति प्रधानाः कीर्तिः- सर्वदिग्व्यापी साधुवादो वर्ण:- एकदिग्व्यापी शब्दोऽर्द्धदिग्व्यापी श्लोकस्तत्तत्स्थान एव श्लाघा एषां द्वन्द्वः तत एते परिगुव्वंति परिगुप्यन्ति व्याकुला भवन्ति सततं भ्रमन्तीत्यर्थोऽथवा परिगूयन्ते- गूधातोः शब्दार्थत्वात् संशब्द्यन्ते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, कथमित्याह- इति खल्वि त्यादि, इतिरेवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगजीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः / महावीर इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, 'आघवेई त्यादि पूर्ववत् / स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह___दसविधे सरागसम्मइंसणे पन्नत्ते, तं०- निसग्गु 1 वतेसरुई 2 आणरुती 3 सुत्त 4 बीतरुतिमेव 5 / अभिगम 6 वित्थाररुती 7 किरिया 8 संखेव ९धम्मरुती १०॥१॥सूत्रम् 751 // दसविहे त्यादि, सरागस्य- अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं- तत्त्वार्थश्रद्धानंतत्तथा, अथवा सरागंच तत्सम्यग्दर्शन चेति विग्रहः सरागंसम्यग्दर्शनमस्येति वेति, निसग्गगाहा,रुचिशब्दः प्रत्येकंयोज्यते, ततो निसर्गः-स्वभावस्तेन रुचिस्तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतो वा रुचिरिति निसर्गरुचिः। यो हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावो, यदाह-जो जिणदिढे भावे चउविहे (द्रव्यादिभिः) सद्दहाइ ॐ द्रव्यादिचतुर्विधान् भावान् यो जिनदृष्टान् भावेन श्रद्धत्ते।
Loading... Page Navigation 1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444