SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 892 // दशममध्ययन दशस्थानम्, सूत्रम् 751 निसर्गादिसम्यग्दर्शनभेदाः इत्यादौ सूत्रे यावत्करणाद् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, सदेवे त्यादि, सह देवैर्वैमानिकज्योतिष्कैर्मनुजैनरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्त्तत इति सदेवमनुजासुरस्तत्र लोके-त्रिलोकरूपे उरालत्ति प्रधानाः कीर्तिः- सर्वदिग्व्यापी साधुवादो वर्ण:- एकदिग्व्यापी शब्दोऽर्द्धदिग्व्यापी श्लोकस्तत्तत्स्थान एव श्लाघा एषां द्वन्द्वः तत एते परिगुव्वंति परिगुप्यन्ति व्याकुला भवन्ति सततं भ्रमन्तीत्यर्थोऽथवा परिगूयन्ते- गूधातोः शब्दार्थत्वात् संशब्द्यन्ते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, कथमित्याह- इति खल्वि त्यादि, इतिरेवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगजीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः / महावीर इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, 'आघवेई त्यादि पूर्ववत् / स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह___दसविधे सरागसम्मइंसणे पन्नत्ते, तं०- निसग्गु 1 वतेसरुई 2 आणरुती 3 सुत्त 4 बीतरुतिमेव 5 / अभिगम 6 वित्थाररुती 7 किरिया 8 संखेव ९धम्मरुती १०॥१॥सूत्रम् 751 // दसविहे त्यादि, सरागस्य- अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं- तत्त्वार्थश्रद्धानंतत्तथा, अथवा सरागंच तत्सम्यग्दर्शन चेति विग्रहः सरागंसम्यग्दर्शनमस्येति वेति, निसग्गगाहा,रुचिशब्दः प्रत्येकंयोज्यते, ततो निसर्गः-स्वभावस्तेन रुचिस्तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतो वा रुचिरिति निसर्गरुचिः। यो हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावो, यदाह-जो जिणदिढे भावे चउविहे (द्रव्यादिभिः) सद्दहाइ ॐ द्रव्यादिचतुर्विधान् भावान् यो जिनदृष्टान् भावेन श्रद्धत्ते।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy