________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 893 // दशममध्ययनं दशस्थानम्, | सूत्रम् 751 निसर्गादि सम्यग्दर्शन| भेदाः सयमेव / एमेव नन्नहत्ति यस निसग्गरुइत्ति नायव्वो॥१॥(उत्तरा०नि०२८/१८) इति, तथोपदेशो-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिस्तत्पुरुषपक्षः स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान् तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावो, यत आह- एए चेव उ भावे उवइडे जो परेण सद्दहइ। छउमत्थेण जिणेण व उवएसरुई मुणेयव्वो॥१॥ (उत्तरा०नि० 28/19) इति, तथाऽऽज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावान्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावो, भणितं च-रागो दोसो मोहो अन्नाणं जस्स अवगय होइ। आणाए रोयंतो सो खलु आणारुई होइ॥१॥ (उत्तरा०नि० 28/20) इति, सुत्तबीयरुईमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण- आगमेन रुचिर्यस्य स सूत्ररुचिों हि सूत्रागममधीयानस्तेनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावोऽभिहितं च-जो सुत्तमहिज्जंतो सुएण ओगाहई उ सम्मत्तं। अंगण बाहिरेण व सो सुत्तरुइत्ति नायव्वो॥१॥ (उत्तरा०नि० 28/21) इति, तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिर्यस्य टेकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावो, गदितंच- एगपएणेगाइं पयाइं जो पसरई उसम्मत्ते / उदएव्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१॥(उत्तरा०नि० 28/22) इति, एवे ति समुच्चये, तथा अभिगमवित्थाररुइ त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः / तत्राभिगमो- ज्ञानं ततो रुचिर्यस्य & एवमेवैते नान्यथेति च निसर्गरुचिख़तव्यः सः॥१॥ यः परेण छद्मस्थेन जिनेन वोपदिष्टानेतानेव भावान् श्रद्धत्ते स उपदेशरुचितिव्यः // 1 // 0 सम्यक्त्वावारकरागद्वेषमोहाज्ञानानि यस्यापगतानि भवन्ति आज्ञाया रोचयन् स खलु आज्ञारुचिर्भवति॥१॥ यः सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वम् / अङ्गेनाङ्गबाह्येन वा स सूत्ररुचिरिति ज्ञातव्यः॥शा एकपदेनानेकानि पदानि योऽवगाहते लभते च सम्यक्त्वम् / उदके इव तैलबिन्दुः स बीजरुचिरिति ज्ञातव्यः॥१॥ // 893