________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 891 // दशममध्ययनं दशस्थानम्, सूत्रम् 749-750 इच्छादिसामाचार्यः, वीरस्वप्नाः रूढः। अथवोर्मिवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, ऊर्मिवीचीनां सहस्रः कलितोयुक्तो यः स तथा तं भुजाभ्यां बाहुभ्यामिति 7 तथा दिनकरं 8 एकेन च णमित्यलङ्कारे मह न्ति महता छान्दसत्वाद् एगं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे हरिवेरुलियवन्नाभेणं ति हरिः-पिङ्गोवर्णो वैडूर्य-मणिविशेषस्तस्य वर्णो- नीलो वैडूर्यवर्णस्ततो द्वन्द्वस्तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा हरिवन्नीलं तच्च तद्वैडूर्यं चेति शेषं तथैव, निजकेन- आत्मीयेनान्त्रेण- उदरमध्यावयवविशेषेण आवेढियं ति सकृतावेष्टितं परिवेढियं ति असकृदिति ९एगं च णं महं ति आत्मनो विशेषणं सिंहासणवरगयं ति सिंहासनानांमध्ये यद्वरंतत्सिंहासनवरंतत्र गतो-व्यवस्थितो यस्तमिति 10 / एतेषामेव दशानांमहास्वप्नानां फलप्रतिपादनायाह-जन्न मित्यादि सुगमम्, नवरं मूलओ त्ति आदितः सर्वथैवेत्यर्थः, उद्धाइए उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, ससमयपरसमइयं ति स्वसिद्धान्तपरसिद्धान्तौ यत्र। स्त इत्यर्थो, गणिनः- आचार्यस्य पिटकमिव पिटकं- वणिज इव सर्वस्वस्थानं गणिपिटकं आघवेइ त्ति आख्यापयति सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयति प्रतिसूत्रमर्थकथनेन दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियैभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, निदंसेइ त्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनदर्शयति निदर्शयति उवदंसेइ त्ति सकलनययुक्तिभिरिति 3, चाउव्वण्णाइण्णे त्ति चत्वारो वर्णाः- श्रमणादयः समाहृता इति चतुर्वर्णं तदेव चातुर्वण्य तेनाकीर्ण- आकुलश्चातुर्वाकीर्णोऽथवा चत्वारो वर्णा:-प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृतत्वात्, चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः / चउविहे देवे पन्नवेइ त्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयतिजीवाजीवादीन् पदार्थान् बोधयति- सम्यक्त्वं ग्राहयति शिष्यीकरोतीतियावद्, लोकेभ्यो वा तान् प्रकाशयति, अणंते // 891 //