________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 890 // इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण च- अरे रेशूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक | दशममध्ययनं श्रीह्रीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीवितसममशेषसुरासुरनर- दशस्थानम्, सूत्रम् निकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं 749-750 क्षमयति स्म, तथा सिद्धार्थश्च तस्य धर्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकम- इच्छादि सामाचार्य:, पूपुजत्, लोकश्च चिन्तयाञ्चकारदेवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः वीरस्वप्नाः प्रभातसमये मुहूर्त्तमानं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्मस्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां अंतिमराइयंसि त्ति अन्तिमा-अन्तिमभागरूपा अवयवे समुदायोपचारात् साचासौरात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थो महान्तः- प्रशस्ताः स्वप्ना- निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् स्वपने स्वापक्रियायां एगंचे ति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः महाघोरं अतिरौद्रं रूपं-आकारंदीप्तं ज्वलितं दृप्तं वा-दर्पवद्धारयतीति। महाघोररूपदीप्तधरस्तदृप्तधरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासस्तालो- वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधर्म्यात् / पिशाचो- राक्षसस्तालपिशाचस्तं पराजितं निराकृतमात्मना 1 एगं च त्ति अन्यं च पुंसकोकिलगं ति पुमांश्चासौ कोकिलश्चपरपुष्टः पुंस्कोकिलकः सच किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः 2 / चित्तविचित्तपक्ख त्ति चित्रेणेति-चित्रकर्मणा विचित्रौ-विविधवर्णविशेषवन्तौ पक्षौ यस्य स तथा 3 दामदुगंति मालाद्वयं 4 गोवग्गं ति गोरूपाणि 5 पउमसर त्ति पद्मानित यत्रोत्पद्यन्ते सरसि तत्पद्मसरः सर्वतः सर्वासु दिक्षु समन्ताद्-विदिक्षु च कुसुमानि- पद्मलक्षणानि जातानि यत्र तत्कुसुमितं 6 उम्मीवीइसहस्सकलियं ति ऊर्मयः- कल्लोलास्तल्लक्षणा या वीचयस्ता ऊर्मिवीचयो, वीचिशब्दो हि लोकेऽन्तरार्थोऽपि // 890 //