SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 889 // दसणे चरित्ते य। दसणनाणे तिविहा दुविहा य चरित्तअट्ठाए॥१॥ वत्तणसंधणगहणे सुत्तत्थोभयगया उ एसत्ति / वेयावच्चे खमणे काले दशममध्ययनं पुण आवकहियत्ति // 2 // (पञ्चा०१२/४२-४३) इति 10, काले त्ति उपक्रमणकाले आवश्यकोपोद्धातनिर्युक्त्यभिहिते सामाचारी दशस्थानम्, सूत्रम् दशविधा भवति // इयं च सामाचारी महावीरेणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दशस्थानकमाह-'समणेत्यादि 749-750 सुगमम्, नवरं छउमत्थकालियाए त्ति प्राकृतत्वात् छद्मस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिषु / इच्छादिपटुपटहप्रतिरवोद्धोषणापूर्वं यथाकाममुपहतसकलजनदारित्र्यमनवच्छिन्नमब्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा सामाचार्यः, वीरस्वप्ना: परिवृतः कुण्डपुरान्निर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायज्ञानमुत्पाद्याष्टौ मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिःस्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्र्यमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामर्द्धमासे गतेऽकाल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाद् बहिः शूलपाणिनामकयक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताहालकमट्टट्टहासं मुञ्चन् लोकमुत्त्रासयामास तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बनांजनस्याधृति जनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिरःकर्णनासादन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येकं प्राणापहारप्रवणाः सपदिसम्पादितवान् तथापि प्रचण्डपवनप्रहतसुरगिरिशिखरमिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्मवन्दनपुरस्सरमाचचक्षे- क्षमस्व क्षमाश्रमण 8 त्रिविधा ज्ञाने तथा दर्शने चारित्रे च / दर्शनज्ञानयोस्त्रिविधा चारित्रार्थं द्विविधा च // 1 // आवर्तनसन्धानग्रहणानि सूत्रार्थोभयगतान्येते / वैयावृत्त्ये तपसि कालतः पुनर्यावत्कथम् // 2 // 1889 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy