Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 893 // दशममध्ययनं दशस्थानम्, | सूत्रम् 751 निसर्गादि सम्यग्दर्शन| भेदाः सयमेव / एमेव नन्नहत्ति यस निसग्गरुइत्ति नायव्वो॥१॥(उत्तरा०नि०२८/१८) इति, तथोपदेशो-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिस्तत्पुरुषपक्षः स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान् तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावो, यत आह- एए चेव उ भावे उवइडे जो परेण सद्दहइ। छउमत्थेण जिणेण व उवएसरुई मुणेयव्वो॥१॥ (उत्तरा०नि० 28/19) इति, तथाऽऽज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावान्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावो, भणितं च-रागो दोसो मोहो अन्नाणं जस्स अवगय होइ। आणाए रोयंतो सो खलु आणारुई होइ॥१॥ (उत्तरा०नि० 28/20) इति, सुत्तबीयरुईमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण- आगमेन रुचिर्यस्य स सूत्ररुचिों हि सूत्रागममधीयानस्तेनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावोऽभिहितं च-जो सुत्तमहिज्जंतो सुएण ओगाहई उ सम्मत्तं। अंगण बाहिरेण व सो सुत्तरुइत्ति नायव्वो॥१॥ (उत्तरा०नि० 28/21) इति, तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिर्यस्य टेकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावो, गदितंच- एगपएणेगाइं पयाइं जो पसरई उसम्मत्ते / उदएव्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१॥(उत्तरा०नि० 28/22) इति, एवे ति समुच्चये, तथा अभिगमवित्थाररुइ त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः / तत्राभिगमो- ज्ञानं ततो रुचिर्यस्य & एवमेवैते नान्यथेति च निसर्गरुचिख़तव्यः सः॥१॥ यः परेण छद्मस्थेन जिनेन वोपदिष्टानेतानेव भावान् श्रद्धत्ते स उपदेशरुचितिव्यः // 1 // 0 सम्यक्त्वावारकरागद्वेषमोहाज्ञानानि यस्यापगतानि भवन्ति आज्ञाया रोचयन् स खलु आज्ञारुचिर्भवति॥१॥ यः सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वम् / अङ्गेनाङ्गबाह्येन वा स सूत्ररुचिरिति ज्ञातव्यः॥शा एकपदेनानेकानि पदानि योऽवगाहते लभते च सम्यक्त्वम् / उदके इव तैलबिन्दुः स बीजरुचिरिति ज्ञातव्यः॥१॥ // 893
Loading... Page Navigation 1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444