Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 432
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 924 // न्युच्चैस्त्वेन पञ्चाशच्च मूलविष्कम्भेण, तत्र दश योजनानि धरणीतलादतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरतस्तु षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत्पञ्चपञ्चाशदिति / तथा विद्याधरश्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोग- आज्ञा तया चरन्तीत्याभियोगिका देवाः, शक्रादिसम्बन्धिनां लोकपालानांसोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति / आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह-गेवेज्जे त्यादि कण्ठ्यम्, नवरं प्राग्देवानामावासा उक्ता, देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनांच महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह-दसही त्यादि, दशभिः स्थानैः- प्रकारैः सह-सार्द्ध तेजसातेजोलेश्यया वर्तमानमनार्य भास न्ति भस्मेव भस्मवत् कुर्याद् विनाशयेदित्यर्थः, श्रमण इति गम्यते, तद्यथा- केइ त्ति कश्चिदनार्यकर्मकारी पापात्मा तथारूपं-तेजोलब्धिप्राप्तं श्रमणं- तपोयुक्तं माहनं- मा हन-मा विनाशय इत्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयार्थी अत्याशातयेद्-आत्यन्तिकीमाशातनांतस्य कुर्यात्, से यत्ति सच श्रमणोऽत्याशातितउपसर्गितः परिकुपितः-सर्वथा क्रुद्धःसन् तस्स त्ति उपसर्गकर्तुरुपरि तेजस्तेजोलेश्यारूपं निसृजेत्-क्षिपेत् से त्ति स श्रमणस्तमित्युपसर्गकारिणं परितापयति-पीडयतितंपरिताप्य तामेवे ति तमेव तेजसा परितापितंदीर्घत्वं प्राकृतत्वात् सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपीत्यर्थो बलवत्त्वात् साधुतेजस इति भासं कुज त्ति प्रसिद्धमित्येकम्, शेषाणि नवापि सुगमानि, नवरं से य अच्चासाइय त्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपितौ ते दुहओ त्ति तौ द्वौ मुनिदेवौ पडिन्न त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ दशममध्ययनं दशस्थानम्, सूत्रम् 773-776 मूलादिवनस्पतिभेदाः, विद्याधराभियोगिक श्रेणि| विष्कम्भाः , ग्रैवेयकोचत्वम्, तेजोनिसर्गकारणानि // 924 //

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444