Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 434
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 926 // गोबहुलब्राह्मणगोशालायां जातो मङ्कलिनाम्नो मङ्खस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः षड् वर्षाणि यावच्छद्मस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो न च सर्वज्ञः, इदंच भगवद्वचनमनुश्रुत्य बहुजनो नगर्यास्त्रिकचतुष्कादिषु परस्परस्य कथयामास- गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः, इदं च लोकवचनमनुश्रुत्य गोशालकः कुपित आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत्, तमवादीच्च- भो आनन्द! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोऽर्थार्थिनो विविधपण्यभृतशकटा देशान्तरंगच्छन्तोमहाटवीं प्रविष्टाः पिपासितास्तत्र जलंगवेषयन्तश्चत्वारिवल्मीकशिखराणिशालवृक्षकस्यान्तरद्राक्षुः, क्षिप्रंचैकं विचिक्षिपुस्ततोऽतिविपुलममलजलमवापुस्तत्पयोयावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः। अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुस्तयोः क्रमेण सुवर्णं च रत्नानि च समासादयामासुः, पुनस्तथैव चतुर्थं भिन्दाना घोरविषमतिकायमञ्जनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलितकोपप्रसरमहीश्वरं सङ्घट्टितवन्तस्ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्ट्या समन्तादवलोकयंस्तान् भस्मसाच्चकार, तन्निवारकवृद्धवाणिजकंतुन्यायदर्शीत्यनुकम्पया वनदेवता स्वस्थानंसहारेति,एवं त्वदीयधर्माचार्यमात्मसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं स्वकीयेन तपस्तेजसा द्यैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहम्, त्वंतु तस्येममर्थमावेदय, भवन्तंच वृद्धवाणिजमिव न्यायवादित्वाद्रक्षिष्यामीति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमुपागत्य तत्सर्वमावेदयद्, भगवताप्यसावभिहित- एष आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मा दादिति गौतमादीनां निवेदयेति, तथैव कृते गोशालक आगत्य भगवन्तमभि समभिदधौ- सुष्ठु आयुष्मन् काश्यप! साधु आयुष्मन् काश्यप! मामेवं वदसि- गोशालको मङ्खलिपुत्रोऽयमि दशममध्ययन दशस्थानम्, सूत्रम् 773-776 मूलादि| वनस्पति| भेदाः , | विद्याधराभियोगिकश्रेणिविष्कम्भा:, | ग्रैवेयको बत्वम्, तेजोनिसर्गकारणानि

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444