Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 903 // रुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धं महाशतक इति 8, नंदिणीपियत्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य भगवताबोधितस्य संलेखनादिगतस्य वक्तव्यतानिबन्धनानन्दिनीपितृनामकमिति 9, लेइयापिय त्ति लेयिकाकापितृनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्धं लेयिकापितृनामकं दशममिति १०।दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मेगताश्चतु:पल्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्यन्तीति ॥अथान्तकृद्दशानामध्ययनविवरणमाह- अंतगडे त्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि, तानि चामूनि-नमी त्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्गहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-गोयम 1 समुद्द 2 सागर 3 गंभीरे 4 चैव होइ थिमिए 5 य। अयले 6 कंपिल्ले 7 खलु अक्खोभ 8 पसेणई 9 विण्हू 10 // 1 // (अन्तकृद्दशा) इति, ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामो, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यम्, जन्मान्तराणांतत्रानभिधीयमानत्वादिति ॥अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह- अणुत्तरो इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैर्यत इहोक्तं- इसिदासे त्यादि, तत्र तु दृश्यते- धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा / पोट्टिके इय // 1 // पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय। विहल्ले दसमे वुत्ते, एमए दस आहिया॥२॥ (अनुत्तरोपपातिकदशा) इति, तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके 0गौतमः 1 समुद्रः 2 सागरः 3 गम्भीर ४श्चैव भवति स्तिमितश्च 5 / अचलः 6 काम्पील्यो 7 ऽक्षोभ्यः 8 प्रसेनजिद् 9 विष्णुः 10 // 1 // धन्यश्च सुनक्षत्र ऋषिदासश्चाख्यातः। पेल्लको रामपुत्रश्च चन्द्रमाः प्रोष्ठक इति॥१॥ पेढालपुत्रोऽनगारोऽनगारः पोट्टिलश्च इति। विहल्लो दशम उक्त एवमेते आख्याता दश // 2 // दशममध्ययनं दशस्थानम्, सूत्रम् 754-756 छास्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, दशाभेदाः, कर्मविपाकादि-दशादशकाध्ययनानि, उत्सर्पिण्यादिकालमानम् (तत्तदध्ययनकथानकानि) // 903 //
Loading... Page Navigation 1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444