SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 903 // रुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धं महाशतक इति 8, नंदिणीपियत्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य भगवताबोधितस्य संलेखनादिगतस्य वक्तव्यतानिबन्धनानन्दिनीपितृनामकमिति 9, लेइयापिय त्ति लेयिकाकापितृनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्धं लेयिकापितृनामकं दशममिति १०।दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मेगताश्चतु:पल्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्यन्तीति ॥अथान्तकृद्दशानामध्ययनविवरणमाह- अंतगडे त्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि, तानि चामूनि-नमी त्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्गहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-गोयम 1 समुद्द 2 सागर 3 गंभीरे 4 चैव होइ थिमिए 5 य। अयले 6 कंपिल्ले 7 खलु अक्खोभ 8 पसेणई 9 विण्हू 10 // 1 // (अन्तकृद्दशा) इति, ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामो, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यम्, जन्मान्तराणांतत्रानभिधीयमानत्वादिति ॥अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह- अणुत्तरो इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैर्यत इहोक्तं- इसिदासे त्यादि, तत्र तु दृश्यते- धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा / पोट्टिके इय // 1 // पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय। विहल्ले दसमे वुत्ते, एमए दस आहिया॥२॥ (अनुत्तरोपपातिकदशा) इति, तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके 0गौतमः 1 समुद्रः 2 सागरः 3 गम्भीर ४श्चैव भवति स्तिमितश्च 5 / अचलः 6 काम्पील्यो 7 ऽक्षोभ्यः 8 प्रसेनजिद् 9 विष्णुः 10 // 1 // धन्यश्च सुनक्षत्र ऋषिदासश्चाख्यातः। पेल्लको रामपुत्रश्च चन्द्रमाः प्रोष्ठक इति॥१॥ पेढालपुत्रोऽनगारोऽनगारः पोट्टिलश्च इति। विहल्लो दशम उक्त एवमेते आख्याता दश // 2 // दशममध्ययनं दशस्थानम्, सूत्रम् 754-756 छास्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, दशाभेदाः, कर्मविपाकादि-दशादशकाध्ययनानि, उत्सर्पिण्यादिकालमानम् (तत्तदध्ययनकथानकानि) // 903 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy