Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 889 // दसणे चरित्ते य। दसणनाणे तिविहा दुविहा य चरित्तअट्ठाए॥१॥ वत्तणसंधणगहणे सुत्तत्थोभयगया उ एसत्ति / वेयावच्चे खमणे काले दशममध्ययनं पुण आवकहियत्ति // 2 // (पञ्चा०१२/४२-४३) इति 10, काले त्ति उपक्रमणकाले आवश्यकोपोद्धातनिर्युक्त्यभिहिते सामाचारी दशस्थानम्, सूत्रम् दशविधा भवति // इयं च सामाचारी महावीरेणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दशस्थानकमाह-'समणेत्यादि 749-750 सुगमम्, नवरं छउमत्थकालियाए त्ति प्राकृतत्वात् छद्मस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिषु / इच्छादिपटुपटहप्रतिरवोद्धोषणापूर्वं यथाकाममुपहतसकलजनदारित्र्यमनवच्छिन्नमब्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा सामाचार्यः, वीरस्वप्ना: परिवृतः कुण्डपुरान्निर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायज्ञानमुत्पाद्याष्टौ मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिःस्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्र्यमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामर्द्धमासे गतेऽकाल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाद् बहिः शूलपाणिनामकयक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताहालकमट्टट्टहासं मुञ्चन् लोकमुत्त्रासयामास तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बनांजनस्याधृति जनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिरःकर्णनासादन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येकं प्राणापहारप्रवणाः सपदिसम्पादितवान् तथापि प्रचण्डपवनप्रहतसुरगिरिशिखरमिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्मवन्दनपुरस्सरमाचचक्षे- क्षमस्व क्षमाश्रमण 8 त्रिविधा ज्ञाने तथा दर्शने चारित्रे च / दर्शनज्ञानयोस्त्रिविधा चारित्रार्थं द्विविधा च // 1 // आवर्तनसन्धानग्रहणानि सूत्रार्थोभयगतान्येते / वैयावृत्त्ये तपसि कालतः पुनर्यावत्कथम् // 2 // 1889 //
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444