Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाजी श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययनं दशस्थानम्, सूत्रम् 745-747 दानानि, गतयः, मुण्डभेदाः, संख्याभेदा: // 880 // एवं जाव सिद्धिगइ सिद्धिविग्गहगती।सूत्रम् 745 // दस मुंडा पन्नत्ता पं० तं०- सोर्तिदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे ॥सूत्रम् 746 // दसविधे संखाणे पं० तं०- परिकम्मं 1 ववहारो 2 रज्जू 3 रासी 4 कलासवन्ने 5 य।जावंतावति 6 वग्गो७ घणो 8 त तह वग्गवग्गो ९वि॥१॥ कप्पोत १०॥सूत्रम् 747 // दसे त्यादि, अणुकंपेत्यादि श्लोकः सार्द्धः, अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया- कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचाराद्, उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादैः-कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते। यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥१॥सङ्ग्रहणं सङ्ग्रहो- व्यसनादौ सहायकरणं तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च-अभ्युदये व्यसने वा यत्किञ्चिद्दीयते सहायार्थम् / तत्सङ्गहतोऽभिमतं मुनिभिनं न मोक्षाय ॥१॥इति, तथा भयाद्यवानं तद्भयदानम्, भयनिमित्तत्वाद्वा दानमपि भयमुपचारादिति, उक्तंच- राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च। यद्दीयते भयार्थं तद्भयदानं बुधै यम्॥१॥इति 3, कालुणिए इय त्ति कारुण्यं- शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्वितिवासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानम्, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति 4, तथा लज्जया ह्रिया दानं यत्तल्लज्जादानमुच्यते, उक्तं च-अभ्यर्थितः परेण तु यद्दानं जनसमूह-3 मध्यगतः। परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् // 1 // इति, 5 गारवेणं च त्ति गौरवेण- गर्वेण यद्दीयते तद्गौरवदानमिति, उक्तं च- नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः / यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम्॥१॥६, अधर्मपोषकं दानमधर्मदानम्, 0भयार्थात्तद्भय० (मु०)।
Loading... Page Navigation 1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444