SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजी श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययनं दशस्थानम्, सूत्रम् 745-747 दानानि, गतयः, मुण्डभेदाः, संख्याभेदा: // 880 // एवं जाव सिद्धिगइ सिद्धिविग्गहगती।सूत्रम् 745 // दस मुंडा पन्नत्ता पं० तं०- सोर्तिदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे ॥सूत्रम् 746 // दसविधे संखाणे पं० तं०- परिकम्मं 1 ववहारो 2 रज्जू 3 रासी 4 कलासवन्ने 5 य।जावंतावति 6 वग्गो७ घणो 8 त तह वग्गवग्गो ९वि॥१॥ कप्पोत १०॥सूत्रम् 747 // दसे त्यादि, अणुकंपेत्यादि श्लोकः सार्द्धः, अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया- कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचाराद्, उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादैः-कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते। यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥१॥सङ्ग्रहणं सङ्ग्रहो- व्यसनादौ सहायकरणं तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च-अभ्युदये व्यसने वा यत्किञ्चिद्दीयते सहायार्थम् / तत्सङ्गहतोऽभिमतं मुनिभिनं न मोक्षाय ॥१॥इति, तथा भयाद्यवानं तद्भयदानम्, भयनिमित्तत्वाद्वा दानमपि भयमुपचारादिति, उक्तंच- राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च। यद्दीयते भयार्थं तद्भयदानं बुधै यम्॥१॥इति 3, कालुणिए इय त्ति कारुण्यं- शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्वितिवासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानम्, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति 4, तथा लज्जया ह्रिया दानं यत्तल्लज्जादानमुच्यते, उक्तं च-अभ्यर्थितः परेण तु यद्दानं जनसमूह-3 मध्यगतः। परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् // 1 // इति, 5 गारवेणं च त्ति गौरवेण- गर्वेण यद्दीयते तद्गौरवदानमिति, उक्तं च- नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः / यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम्॥१॥६, अधर्मपोषकं दानमधर्मदानम्, 0भयार्थात्तद्भय० (मु०)।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy