SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ दशममध्ययन दशस्थानम्, सूत्रम् 745-747 दानानि, गतयः, मुण्डभेदाः, संख्याभेदाः // 881 // अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं च-हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः / यद्दीयते हि तेषां तज्जानीयादधर्माय॥१॥ इति 7, धर्मकारणं यत्तद्धर्मादानं धर्मे एव वा, उक्तं च- समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः। अक्षयमतुलमनन्तं तद्दानं भवति धर्माय॥१॥इति, 8, काही इय त्ति करिष्यति कञ्चनोपकारं ममायमितिबुद्ध्या यद्दानं तत्करिष्यतीति दानमुच्यते 9, तथा कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति, उक्तं च- शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन। अहमपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम्॥१॥इति 10 / उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह-दसे त्यादि, निरयगति त्ति निर्गता अयात्-शुभादिति निरया-नारकास्तेषांगतिर्गम्यमानत्वान्नरकगतिस्तद्गतिनामकर्मोदयसम्पाद्योनारकत्वलक्षणः पर्यायविशेषो वेति नरकगतिस्तथा निरयाणां- नारकाणां विग्रहान्-क्षेत्रविभागानतिक्रम्य गतिर्गमनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिकर्मापाद्या वेति, एवं तिर्यङ्नरनाकिनामपीति, सिद्धिगति इति सिद्ध्यन्ति-निष्ठितार्था भवन्ति यस्यांसा सिद्धिःसा चासौगम्यमानत्वाद्गतिश्चेति सिद्धिगतिर्लोकाग्रलक्षणा, तथा सिद्धविग्गहगइ त्ति सिद्धस्य-मुक्तस्य विग्रहस्य-आकाशविभागस्यातिक्रमेण गतिर्लोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदै-8 नारकादीनां वक्रगतिरुक्ता, प्रथमैस्तु निर्विशेषणतया पारिशेष्यादृजुगतिः, सिद्धिगइ त्ति सिद्धौ गमनं निर्विशेषणत्वाच्चानेन सामान्यात्सिद्धिगतिरुक्ता, सिद्धिविग्गहगइ त्ति सिद्धावविग्रहेण-अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्टा सिद्धिगतिरुक्ता, सामान्यविशेषविवक्षया चानयोर्भेद इति। सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह 0 विग्रहात् (मु०)। // 881 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy