________________ श्रीस्थानाङ्गदसे त्यादि, मुण्डयति-अपनयतीति मुण्डः, सच श्रोत्रेन्द्रियादिभेदादशधेति,शेषं सुगमम्।मुण्डा दशेति सङ्ख्यानमतस्तद्वि दशममध्ययन श्रीअभय० धय उच्यन्ते, दसे त्यादि, परिकम्म गाहा, परिकर्म-संकलिताद्यनेकविधं गणितज्ञप्रसिद्धं तेन यत्सङ्खयेयस्य सङ्ख्यानं दशस्थानम्, वृत्तियुतम् सूत्रम् भाग-२ परिगणनं तदपि परिकर्मेत्युच्यते 1, एवं सर्वत्रेति, व्यवहारः श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधा 2, रज्जुत्ति, रज्ज्वा 745-747 // 882 // यत्सङ्ख्यानंतद्रजुरभिधीयते, तच्च क्षेत्रगणितं 3, रासि त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, सच पाट्यांराशिव्यवहार दानानि, इति प्रसिद्धः 4, कलासवन्ने यति कलानां- अंशानां सवर्णनं सवर्णः सवर्णः-सदृशीकरणं यस्मिन् सङ्ख्याने तत्कलासवर्ण गतयः, मुण्डभेदा:, 5, जावं ताव त्ति 'जावं तावन्ति वा गुणकारोत्ति वा एगट्ठ'मिति वचनाद् गुणकारस्तेन यत्सङ्खयानं तत्तथैवोच्यते, तच्च संख्याभेदा: प्रत्युत्पन्नमिति लोकरूढम्, अथवा यावतः कुतोऽपितावत एव गुणकाराद्यादृच्छिकादित्यर्थो यत्र विवक्षितंसङ्कलितादिकमानीयते तद्यावत्तावत्सङ्ग्यानमिति, तत्रोदाहरणं-'गच्छो वाञ्छाभ्यस्तो वाञ्छयुतो गच्छसङ्गणः कार्यः / द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः॥१॥' अत्र किल गच्छो दश 10, तेच वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ता जाताऽशीतिस्ततो वाञ्छायुतास्ते अष्टाशीतिः 88, पुनर्गच्छेन दशभिः सङ्गणिता अष्टौ शतान्यशीत्यधिकानि जातानि 880, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हते यल्लभ्यते तद्दशानां सङ्कलितमिति 55, इदं च पाटीगणितं श्रूयते इति / 6, यथा वर्ग:- संख्यानं यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात इति वचनाद् 7 घणो यत्ति घनः सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ 'समत्रिराशिहति'रिति वचनात् 8, वग्गवग्गो त्ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्ख्यानम्, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्ग: षोडशेति, अपिशब्दः समुच्चये 9, कप्पे य त्ति गाथाधिकम्, तत्र कल्पश्छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यत्पाट्यांक्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाश्चिदुदाहरणानि मन्दबुद्धीनांदुरवगमानि भविष्यन्त्यतो // 882 //