Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 911
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । मोचने । कस्थ एषु नाचामेत् दक्षिणं श्रवणं स्पृशेत्” इति स्मृतेः । अभ्युदानयन् अग्नेरभिमुखौमानयन् जपेत् । सोमेददिति मन्त्रं पतिः पठेत् । गोभिलः । “ पश्चादग्नेः संवेष्टितं कटमेवं जातीयं वान्यं पदा प्रेरयन्तीं वाचयेत् । प्रमे पतियानः पन्याः कल्पतामिति” ॥ अग्नेः पश्चाद्धोरणरचितं कटं तन्जातीयमन्यग्रथितं वा वस्त्राच्छादितं पादेन प्रेरयन्तीं वधूं प्रमे पतियान इति वाचयेत् पतिः । स्वयं जपेदजपन्त्यां प्रास्या इति वषिोऽन्तं कटान्तं प्रापयेत् । पूर्वकटान्ते दक्षिणतः पाणिग्राहस्योपविशति । प्रमे इति मन्त्रं वाख्यात् लज्जया वाऽजपान्त्यां वध्वां स्वयमेव पतिः पूर्वमेव मन्त्र प्रमे इति स्थाने प्रास्या इत्यूहं कृत्वा जपति । अन्तशब्दः समीपवचनः । तेन कटवर्हिषोः समौपदेशम् अन्तरालरूपं प्रापयेत् । पत्युदक्षिणतः कटस्य पूर्वभागे कन्या उपविशति । दक्षिणेन पाणिना दक्षिणमं मन्वारब्धायाः षड़ाज्या हुतौर्जुहोति अग्निरेतु प्रथम इत्येतत् प्रभृतिभिरिति । अन्वारब्धाया इति कर्त्तर शः । सप्तम्यर्थे षष्ठौ । तेन पत्युर्दचिणस्कन्धं दक्षिणहस्तेनान्वारख्यायां संलग्नायां सत्याम् अग्निरेतु इत्यादि षडभिर्मन्त्रैः षडाच्या तौर्जुहोति वरः महाव्याहृतिभिः पृथक्समस्ताभिचतुर्थी महाव्याहृतिभिर्भूर्भुवः स्वरिति तिसृभिः प्रत्येकमाज्याहृतौर्जुहुयात् । हुत्लोपैत्य श्रवतिष्ठत इति हवनानन्तरम् उपेत्याज्वलिं वध्वा वधूवरावुपतिष्ठतः । अंशस्यर्शनात् कन्याया: होमानुकूल चेष्टावत्त्वात् समानकर्तृकत्वेन वा । अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदय, खोऽवतिष्ठते बध्वच्जलिं गृहीत्वा । अनुपृष्ठ पृष्ठ लचौकृत्य परिक्रम्य गत्वा तेन कन्यायाः पश्चाद्दत्र्त्मना तस्या दक्षिणं गत्वा वध्वज्ञ्जलिं दक्षिणहस्तेन गृहीत्वा उदङ्म ुखोऽवतिष्ठत् । एषोऽञ्जलिः ग्रहणपर्यन्तं For Private And Personal Use Only 2

Loading...

Page Navigation
1 ... 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963