________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
मोचने । कस्थ एषु नाचामेत् दक्षिणं श्रवणं स्पृशेत्” इति स्मृतेः । अभ्युदानयन् अग्नेरभिमुखौमानयन् जपेत् । सोमेददिति मन्त्रं पतिः पठेत् । गोभिलः । “ पश्चादग्नेः संवेष्टितं कटमेवं जातीयं वान्यं पदा प्रेरयन्तीं वाचयेत् । प्रमे पतियानः पन्याः कल्पतामिति” ॥ अग्नेः पश्चाद्धोरणरचितं कटं तन्जातीयमन्यग्रथितं वा वस्त्राच्छादितं पादेन प्रेरयन्तीं वधूं प्रमे पतियान इति वाचयेत् पतिः । स्वयं जपेदजपन्त्यां प्रास्या इति वषिोऽन्तं कटान्तं प्रापयेत् । पूर्वकटान्ते दक्षिणतः पाणिग्राहस्योपविशति । प्रमे इति मन्त्रं वाख्यात् लज्जया वाऽजपान्त्यां वध्वां स्वयमेव पतिः पूर्वमेव मन्त्र प्रमे इति स्थाने प्रास्या इत्यूहं कृत्वा जपति । अन्तशब्दः समीपवचनः । तेन कटवर्हिषोः समौपदेशम् अन्तरालरूपं प्रापयेत् । पत्युदक्षिणतः कटस्य पूर्वभागे कन्या उपविशति । दक्षिणेन पाणिना दक्षिणमं मन्वारब्धायाः षड़ाज्या हुतौर्जुहोति अग्निरेतु प्रथम इत्येतत् प्रभृतिभिरिति । अन्वारब्धाया इति कर्त्तर शः । सप्तम्यर्थे षष्ठौ । तेन पत्युर्दचिणस्कन्धं दक्षिणहस्तेनान्वारख्यायां संलग्नायां सत्याम् अग्निरेतु इत्यादि षडभिर्मन्त्रैः षडाच्या तौर्जुहोति वरः महाव्याहृतिभिः पृथक्समस्ताभिचतुर्थी महाव्याहृतिभिर्भूर्भुवः स्वरिति तिसृभिः प्रत्येकमाज्याहृतौर्जुहुयात् । हुत्लोपैत्य श्रवतिष्ठत इति हवनानन्तरम् उपेत्याज्वलिं वध्वा वधूवरावुपतिष्ठतः । अंशस्यर्शनात् कन्याया: होमानुकूल चेष्टावत्त्वात् समानकर्तृकत्वेन वा । अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदय, खोऽवतिष्ठते बध्वच्जलिं गृहीत्वा । अनुपृष्ठ पृष्ठ लचौकृत्य परिक्रम्य गत्वा तेन कन्यायाः पश्चाद्दत्र्त्मना तस्या दक्षिणं गत्वा वध्वज्ञ्जलिं दक्षिणहस्तेन गृहीत्वा उदङ्म ुखोऽवतिष्ठत् । एषोऽञ्जलिः ग्रहणपर्यन्तं
For Private And Personal Use Only
2