Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 922
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 205 संस्कारतत्त्वम् । कालः तत्रिमित्तेन नैमित्तिकं गमनं काय्र्यम् चकुर्वतः प्रत्थ* वायात्रियमः " ऋतुमतोन्तु यो भाय्यां सन्निधौ नोपसर्पति । अवाप्नोति स मन्दामा भ्रूणहत्या हताहती" इति स्मृतः । ज्योतिषे । "ज्येष्ठामूलामघाश्लेषारेवतोक्कृत्तिकाखिनी । उत्तरात्रितयं त्यक्ता पर्ववजें व्रजेदृतौ ॥ विष्णुपुराणम् । चतुः यष्टौ चैव अमावास्याथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च” ॥ याज्ञवल्काः । " षोड़शर्त्तर्निशास्त्रीयां सासु युग्मासु संविशेत्” । पत्र षोड़शाहोरात्रात्मककालस्य सावनत्वात् पुंसवननामकरणयोरपि सावनगणनायायुक्तत्वाच संस्कारमात्रे सावनगणनया व्यवहारच तथा च याज्ञवल्काः । गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सौमन्तः प्रसवे जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽनप्राशनं मासि चड़ा कार्य्या यथाकुलम् । एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥ चतुर्थे स्पन्दते तत इति वचनात् स्पन्दनात् पूर्वमासत्त्रयं पुंसवनकालः । अत्र चतुर्थमासस्य सौरत्वे चान्द्रत्वे वा निषेककामस्यापि तथात्वे तदाद्यन्त दिन निषेके सति अधिकन्यूनकालयो गर्भस्पन्दनमनियत मापद्येत सावने तु नियतं तेनात्र सावनगणना युक्ता योषिद्यवहारसिद्धा च अहन्येकादशे नाम इत्यत्रापि शौचव्यपगमे नामधेयमिति विष्णुस्वात् । सूतकोत्तर दिनपरमेकादशदिनपदम् । " सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिव सावनेन प्रकीर्त्तिता" इति सूर्यसिद्धान्तवचनेन सूतकस्य सावनदिनघटितत्वात् तदुत्तरदिनस्यापि तथात्वम् अतो दिनमासवर्षगणना सावनेमिति । शुभाशुभविवेचनन्तु सौरेण ज्योतिःशास्त्रात् । अतएव पितामहः । “विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963