Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८३६
संस्कारतत्त्वम् । ये चान्ये सुद्धदो यावत्यो वा सविहिताः स्युः। याचते इत्यध्याहार्यम्। सुहदे स्निग्धहृदये खसाये तथा च मनुः "मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम्। भिल्येत भिक्षां प्रथमां याचैनं नावमानयेत् ॥ सन्निहितास्तहे शस्थाः न तु प्रतिग्रहं गत्वा। भवति भिक्षां देहोति ब्राह्मणभिक्षा. प्रयोगः। तथा च मनुः। "भवत् पूर्व चरेत् भैक्ष्यमुपवौतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ पादि. मध्यावसानेषु भवच्छब्दोपलहिता। ब्राह्मणक्षत्रियविशां मैक्ष्यचा यथाक्रमम् ॥ इति याज्ञवल्क्यवचनाच । प्राचार्याय भैक्ष्य प्रणिवेदयतो वेदयति समर्पयति भोरिति। प्राचार्याय निवेद्य प्रति यहोयादिति रावान्तरवचनात् । भक्ष्यं भोरिति निवेदनमन्त्रः। भक्ष्यस्य संस्कारार्थत्वात् प्राचार्याय निवेद्य खयं तदेव भुनौत। तथा च मनुः “समाहत्याथ तबैच्य यावदनममायया। निवेद्य गुरवेऽनौयात् प्राचार्य प्रान,ख: शुचि:"n प्राचार्याय माणवकाय भैक्ष्य प्रदाय कर्मशेषं समापयेत् इति तच्च सावित्रया चाहोमादिवक्ष्यमाणतत्तद् ग्रन्थात् तिष्ठत्यहः शेषं वागयतः। माणवकोऽह: शेषं संयत. वागास्ते। अस्तमिते समिधमादधाति अग्नये समिधम हार्षमिति। अस्तं गते सूर्ये समिध प्रादेशमानमग्नये समिधमहार्षमित्यनेनादधाति इयमेवात: प्रधानाहुतिः । ततश्चास्याः पुरस्तादुपरिष्टाच्च समिद्भवतीति। उक्लञ्च। “समिधादिषु होमेष मन्त्र दैवतवर्जिता। पुरस्ताञ्चोपविष्टाच इन्धनार्थ समिद्भवेत्” । समिद्धोमश्च सायं प्रातः कर्तव्यः तथा च मनुः । "दूरादाहृत्य समिधः सविदध्याविहायसे। माय प्रातच जुहुयादाहिताग्निरतन्द्रितः ॥ समिदाधानानन्तरञ्चाग्निमभिवादयेत्। तथा च ग्राह्यान्तरम्। उभयत्राग्नि समिध्य
For Private And Personal Use Only

Page Navigation
1 ... 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963