Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारत त्वम् ।
હ
मोत्रनामनी प्रोच्याभिवाद्यावार्य्यमभिवादयेत् । उभयत्र सायं प्रांतः । अभिवाद्यग्निमित्यन्वयः । त्रिरात्रमचारलवणाशौ भवति । स्पष्टार्थम् । तस्यान्ते सावित्रचरुः । तस्य उपनयनरूपव्रतस्य न तु सविधानाश्विरातस्य अव्यक्तशब्दस्य प्रधानेन सह सम्बन्धदर्शनात् । अन्यथा तस्यान्त इत्यवचनीयं स्यात् । अस्यान्त इति वक्तुं युक्तम् । भट्टभाष्येऽप्येवम् । ततचतुर्थेऽहनि सावित्रचरूरिति भवदेवभट्टोक्ता चतुर्थेऽह्नि सावित्रचरुः काय्र्य इति सरलोच हेयम् । सवितास्य देवता इति सावित्र: यथार्थं गौर्दचिथा । यथार्थम् उदोच्यं महाव्याहृत्यादि कर्म । इयं दक्षिणा उपनयनकर्मणः न तु सावित्रचरोः प्रधानस्य उपनयनको दक्षिणान्तरानभिधानात् । अतएव उपनयनान्तरमाचाय्याय वरो दक्षिणा इति गृह्यान्तरमिति सरला | वरोगौः । तथा चोक्तम। “गौर्विशिष्टतमा लोके वेदेष्वपि निगम्यते । न ततोऽन्यद्दरो यस्मात्तस्माद्रौर्वर उच्चते” ॥ इदानीमुपनयनातिरिक्तकव्रताचरणादन्यद्दतादि न लिखितम् । भवदेव भट्टेनापि न लिखितम् । गोभिलः । " सर्वत्राचार्ष तदशकं तेनारात् सत्यमुपागामिति” विशेषः । सर्वत्र सर्वेषां व्रतानामन्ते अयं मन्त्रे विशेषः । यत्र चरिष्यामि तवाचार्षमिति । यत्र तच्छकेयमित्यव तदद्मकमिति । यत्र तेना समिधामि तव तेनारात् समिषमिति यत्र उपैमौति तत्र उपागामिति । की क्रमस्तु । उपनयनम्रतान्ते सावित्र चरुहोमः । ततः स्विष्टिक्कडोमः । प्राकस्विष्टिकदावाप इति स्वात् । ततोऽग्ने व्रतपते व्रतमचाषं तत्ते प्रव्रवौमि तदशकं तेनारात् समिधमहमनृतात् सत्यमुपागां खाहेत्येवमुक्का होमकर्मसमाप्तो दक्षिणा गोदानमिति भट्टभाष्यम् । एतेन ब्रह्मचारियां जपमानं न होमो वचनाभावात् । खाहान्तानामपि
For Private And Personal Use Only
<

Page Navigation
1 ... 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963