Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 723
________________ भारद्वाजस्मृतिः महानदी पुण्यतीर्थ सलिलं चोत्तमोत्तमम् । नदीधनरसं मेध्यं इतरंतु कनीयसम् ॥३६॥ तत्र स्वादूदकं श्रेष्ठं काषायांभस्तुमध्यमम् । इतरत्सलिलं वारि कनीयसमुदाहृतम् ॥४०॥ सकीटकं स दुर्गधं हेयवस्तु समन्वितं । समृत्तिकं यत्सलिलं तदयोग्यमिति स्मृतम् ॥४१।। श्लेष्मरक्तसुरामांससर्पिर्मात्रास्थिशिरोरुहैः । एतानि हो(हे)यवस्तूनि न संस्पृश्यानि हि कचित् ॥४२॥ स्वच्छं सुशीतलं स्वादु लघुसत्पात्रपूरितम् । पानीप्यं तत्तु जानीयात्सलिलं श्रेष्ठमुच्यते ॥४॥ चंदनागरुकर्पूरचंपकोसीरकुंकुमैः। वस्ति(संशोधितं यत्तन्नदीतोयं मनोहरम् ॥४४॥ मूलेनाष्टोत्तरशतं वार्येतदभिमर्त्य च। सकूचं नापयेद्देवीं सर्वपुण्यफलं लभेत् ॥४॥ निवारतंडुलाः श्रेष्ठाः मध्यमा व्रीहितंडुलाः । होमोक्तधान्या जायंते तंडुलाःस्युः कनीयसः ॥४६।। अखण्डा निस्तुषा श्रेष्ठाः श्वेताःस्निग्धाश्च शोभनाः। सतुषा बहुवर्णाश्च कणाम्ना नैव शोभ नाः ॥४७॥ आढ़कप्रमिताः श्रेष्ठाः तदर्धा मध्यमाःस्मृताः । कनीयसस्तदर्धाश्च नैवेद्यपरिकल्पने ॥४८॥ क्लिन्नान्नं तंडुलान्नं चाभिः सटालंवणोदनं । सर्वगान्नं घटान्नश्च नैवेद्य परिकल्पयेत् ॥४॥

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768