Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३२०२
भारद्वाजस्मृतिः एकीकृत्याऽथ वा मूलाग्राण्यनुवर्त्य प्रदक्षिणम् । तथैवाग्रेण चावेष्ट्य कुर्याग्रन्थिं यथादृढ़म् ॥१७॥ पवित्रीकरणं त्वेवं उदितं सर्ववेदिनाम् । वलयं स्वांगुलैर्मानं ग्रंथिरेखांगुलीप्रमा ॥५॥ चतुरंगुलमग्रस्य मध्यस्थानमनामिकम् । वलयं ग्रन्थिकाग्राणां ब्रह्मविष्णुमहेश्वराः ॥५६।। पवित्रस्य भवत्येते क्रमेणैवाऽधिदेवताः । अर्कोदितानां सर्वेषां पवित्राणां च लक्षणम् ॥६०॥ सामान्यमिदमित्येवं उदितं ब्रह्मवादिभिः । एतत्पवित्रमाग्नेयं नामधेयं प्रचक्षते ॥६१॥ धृत्वैव सर्वकर्माणि कुर्यात्कर्मफलाप्तये । पूर्वेतरप्रकारेण कुर्यादेकेनबहिषा ॥६२।। पवित्रं पितृकार्येषु तत्समस्तेषु भाषितम् । अन्योन्याप्रैः कुशैः कुर्यात्पवित्रं न कदाचन ॥६३॥ एकैकखंडैरपि वा यत्र कुत्र स्थितैरपि । उक्तान्दर्भान्यथापूर्व एकीकृत्यानुवर्त्य च ॥६४॥ प्रदक्षिणद्वयोरज्वोरानीयाग्रेण पूर्ववत् । अन्थि कुर्यात्तथामेदं पवित्रे ब्रह्मनामनि ॥६॥ इदं पवित्रं पूर्वोक्तात्पवित्रादधिसत्तमम् । अन्यद्ब्राह्मयथा पूर्व अनुवत्यैक बहिषा ॥६६॥ ... कुर्यात्पवित्रत्येस्याग्रन्थि ब्राह्मपवित्रवत् । मंत्रेण धारयेद्विप्रः विना मंत्रं धृतं तु तत् ।।६७॥..

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768