Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ब्याहृतिविधानम्
३२१३ व्याहृतीनामथैतस्मिनपुरश्चर्याविधिं पुरः। शत्यर्थमन्यथाशक्तिर्न पुरश्चरणं विना ॥३६॥ तस्मात्पुरश्चरेद्धीमान् अथ कर्म समाचरेत् । कर्माणीष्टानि सिध्यति सत्यं तस्याग्रजन्मनः ॥४०॥ त्रिस्नानं ब्रह्मचर्य च वसुधाशयनं चरेत् । जपेद्द्वादशसाहस्र उपवासत्रयं द्विजः ॥४१॥ अशक्तोयस्त्वहोरात्रं वोपोष्याभिहितं जपेत् । अपुरश्चरणं ह्यतदिष्टानान्यथाऽऽचरेत् ॥४२॥ ब्रह्मवर्चसकामश्चेत्सहस्रं ब्रह्मभूरुहाम्। . सरधाक्तौरदध्यक्ताः समिधो जुहुयाल्लभेत् ॥४३॥ तेजस्कामस्तथाऽऽज्येन धान्यकामस्तु शालिभिः । क्षीरेण पशुकामस्तु पुत्रकामो वदेन्धनैः ॥४४॥ शांतिकामःशमीकाष्ठैः अर्थकामोर्कतर्पणैः । रक्षोविनाशनार्थीचल्लाजैरपिति वैरपि ॥४॥ दुःस्वप्नपापनाशार्थी पापी सद्यो विनश्यति । प्रक्षिप्याभिभ्रातृकामः पुत्रार्थी पिप्पलेन्धनैः ॥४६॥ अपामार्गेरैश्वर्यकामः श्रीकामी यः पलाशकैः । सुधर्मा प्रियकामस्तु सर्वद्रव्याण्यनुक्रमात् ॥४७॥ सहस्रसंख्यया होमः ततइष्टं प्रयच्छति । तस्माद्विप्रपुरश्चयाँसम्यग् कृत्वार्थहावयेत् ॥४८॥

Page Navigation
1 ... 764 765 766 767 768