Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
व्याहृतिविधानम्
३२११ तत्तस्फलप्रसिद्धयर्थं अन्यथा तत्फलं न हि। तत्तत्कर्माभिधानार्थे विनियोगः उदाहृतः ॥१७॥ आसनं स्वस्तिकं प्रोक्तं जपहोमौ प्रकुर्वतः । कुशेशयासनं वापि वीरासनमथापिवा ॥१८॥ अंगुष्ठाऽधिकनिष्ठान्तं उभयोर्हस्तयाः क्रमात् । भूरादिपंचवि(क)? न्यस्यन्यसेदन्यद्विकं दले ॥१६॥ करन्यासक्रमोऽयंत्याहेहन्यासोऽथ कथ्यते । पादजानूर्वधोनाभिवक्षः करास्यमूर्धसु ॥२०॥ भूरादिसप्तकं न्यस्य प्रणवं चाऽथ विन्यसेत् । देहन्यासोऽयमाख्यातः त्वयमेवान्यथोच्यते ॥२१॥ भूरिति न्यस्य शिरसि भुवो बाहुद्वये न्यसेत् । सुवश्चरणयोय॑स्यमहर्वामकरे न्यसेत् ॥२२॥ वामस्कंधे जनं न्यस्य तपो हस्तेऽथ दक्षिणे । सत्यं च दक्षिणस्कधे न्यसेत्पश्चाद्विचक्षणः ॥२३॥ देहन्यासकरं प्रोक्त त्वंगन्यासोऽथ कथ्यते । हृदये भूर्भुवो मौलौ शिखायां सुपरित्यध ॥२४॥ तपोमहर्बहिश्चाक्षोः जनस्तपश्चपार्श्वयोः । सत्यं दशककुप्स्वेवं षट्स्थानेषु क्रमान्न्यसेत् ॥२५॥ आद्यन्तयोाहतीनां सप्तानां प्रणवेन सह । गायत्री शिरसा योज्य जपेत्संध्यां जप क्रमात् ॥२६॥ एवं समाहितमनाः प्राणान् संयम्य वै तथा। .. त्रिवेदस्यनामास्यात्प्राणायामो जपस्य तु ॥२७॥

Page Navigation
1 ... 762 763 764 765 766 767 768