Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३२०६
कुशविधानम् तस्मात्पवित्रं सततं द्विजैर्वेदपरायणैः। कर्मानुष्ठाननिरतैः धायनेतरजातिभिः ॥१३॥ ॥ इति श्रीभारद्वाजस्मृतौ कुशविधानं नाम
अष्टादशोऽध्यायः ।।
अथ उनविंशोऽध्यायः
व्याहृतिकल्पवर्णनम् अथ कल्पं प्रवक्ष्यामि व्याहृतीनां यथातथम् । द्विजानां सर्वशाखानां कल्पानां सदृशःस्मृतः॥१॥ भूरितिव्याहृतिः पूर्वा द्वितीयेति भुवःस्मृता। सुवस्तृतीयःतियाचमहः चतुर्थीः पंचमीजनः॥२॥ तत्षष्ठी सप्तमी च सम्यगेवं समीरिताः । एता महाव्याहृतयः सर्वदेहे स्थिता द्विजाः॥३॥ असुसप्तमपूर्वाःम्युः तिस्रो व्याहृतयःक्रमात् । एवं महाव्याहृतयो द्विधा व्याहृतयस्तथा ॥४॥ अहं(एव)? क्रमेण वक्ष्यामि मुनिच्छन्दोऽधिदेवताः। वर्णास्थानस्वरूपाणि विनियोगं निजासनम् ॥५॥

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768