Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 760
________________ कुशविधानम् ३२०७ विधानमेतत्तथाख्यातं कूर्चस्य सकलं क्रमात् । अनंतरं प्रवक्ष्यामि दर्भमालाकृतिक्रमम् ॥१११।। त्रिभिश्चतुर्भिश्च कुशैः दीधैर्लक्षणसंयुतैः। कुर्वीत मालिकां विप्रो यथानयनवल्लभाम् ॥११२॥ उपर्यग्रमधोमूलं कृत्वादर्भास्तदग्रकैः। . रज्जुकनिष्ठिका प्रकुर्वीत यथादृढ़म् ॥११३॥ कुशानामंतरं तेषां व्यस्तामास्थानमांगलम् । उत्तम व्यंगुलं मध्यं अधमं त्र्यंगुलं क्रमात् ।।११४॥ शुल्वस्याथ कुशायामा पंचशाखा प्रमाणकम् । एवं सम्यकृतायासा कुशमालंतमाःस्मृताः ॥११॥ यज्ञशालावृता वैषा प्रोक्तातद्वारदक्षिणे । जपहोमार्चनस्थानध्यानसंवरणेऽपि च ॥११६।। तृतीयांगुलमुष्टीनां द्वयं वैकमथापि वा। आसनं ब्राह्मणस्य स्याद्ब्रह्मयज्ञं प्रकुर्वतः ॥११॥ अष्टोत्तरशतं दर्भाः निर्दोषानिप्सरायताः । सदृशं सर्वहोमेषु संग्राह्य सर्ववेदिनाम् ॥११८॥ आत्मब्रह्मासनार्थं च संकल्पोद्देश्यका)र्थकम् । प्रोक्षणि पूर्णपात्रार्थं आज्यसंस्करणार्थकम् ।।११।। पात्रं सम्मानार्थं च सम्परिस्तरणार्थकम् । संस्कारार्थममी दर्भाः प्रयोक्तव्या यथाक्रमम् ॥१२०॥ देव्याः कुशाश्चयुगपत्परमात्मनि निताः। यत्रोक्तं वैदिकं कर्म कुशास्तत्र प्रकीर्तिताः ॥१२॥

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768