Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 765
________________ . Ps भारद्वाजस्मृतिः सप्तैताव्याहृतीरेता केवला वा द्विजो जपेत् । जपक्रमोऽयमेवं स्यात्सर्वपापप्रणाशनः ॥२८॥ पूर्ववत्प्राणसंरोधं कृत्वैताश्च द्विजो जपेत् । तस्य चाप्यभिधानं स्यात्प्राणायामो जपस्य तु ॥२६॥ अष्टोत्तरसहस्र वा अष्टोत्तरशतं तु वा। जपतः सर्वपापानि प्रणश्यन्ति न संशयः ॥३०॥ देवादिस्थापनार्चासु भवने वाऽघमर्षणे । तिस्रो व्याहृतयो मुख्याः इति भोक्ता महर्षिभिः ॥३१॥ व्यस्तं पूर्व प्रयोक्तव्यं समस्तं तदनंतरम् । एवमासां प्रयोगोऽयं चतुर्धा समुदीरितः ॥३२॥ व्याहृतित्रितयं श्रेष्ठमंत्रेण सकलेष्वपि । भूर्भुवः सुवरिति वा तिस्रो व्याहृतय :स्मृताः ॥३३॥ चतुर्थं महइत्येतद्ब्रह्म सर्व उदाहृतः। भूम्यान्तरिक्षस्वळख्याश्चतस्रःस्युः क्रमा इमाः ॥३४॥ प्राणापानव्यानानि अर्कवाय्वग्निवारिजाः। ऋक्सामयजुर्ब्रह्मणि इत्येवं श्रुतिचोदनात् ॥३॥ एताश्चतस्रो यो वेत्ति सकल्पं सरहस्यकम् । स हि वेत्ति परब्रह्म तदन्ते यात्यसंशयम् ॥३६॥ जपहोमार्चनारंभे स्मृत्वा वा मुनिपूर्वकान् । मृत्वा(मूलं) न्यासत्रयं कृत्वा तत्तत्कर्माणि कारयेत् ॥३७॥ अज्ञात्वैतानि होमानि कुर्युरुक्तक्रियां द्विजः । होमेन केवलैमत्रैः निष्फलत्वं प्रयान्ति ताः ॥३८॥

Loading...

Page Navigation
1 ... 763 764 765 766 767 768