Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 763
________________ ३२१० भारद्वाजस्मृतिः पंचशाखं शरीराणां विन्यासत्रितयं तथा । जपे होमे क्रमं चैव पुरश्चरणसत्क्रमम् ॥ ६॥ काम्यहोमफलावाप्तिमन्यद्भव्यफलं च यत् । तदशेषं यथास्पष्टं भवत्यत्यन्तमुतमम् ।। ७॥ ऋषिरासां समस्तानां व्याहृतीनां प्रजापतिः । कथ्यते मुनयस्तासां व्याहृतीनां पृथक पृथक् ॥ ८॥ अत्रिभृगःकुत्ससशज्ञा(कश्यपश्च?) वाशिष्ठो गौतमस्तथा । काश्यपश्चांगिराश्चैते मुनयः क्रमश स्मृताः ।।६।। सप्तर्षयोऽथवैतासां सप्तानां स्युर्यथाक्रमात् । क्रमेणैते प्रवक्ष्यते परिस्पष्टं यथाह्यधः ।।१०।। विश्वामित्रो जमदग्निर्भरद्वाजोऽथगौतमः । अत्रिर्वशिष्ठकश्यप इति सप्तसप्त(र्ष)यः स्मृताः ॥११॥ दिव्यचंदन लिप्तांगा: दिव्यैःपुष्पैरलंकृताः । गायत्र्युष्णिनुष्टुप्च बृहती पंक्तिरेव च ।।१२।। त्रिष्टुप्चजगती चैवस्युश्छन्दांसि यथाक्रमम् । अनिर्वायुः सहस्रांश्शुर्वागीशो वरुणो वृषा ॥१३॥ आसां यथाक्रमेणैव विश्वेदेवाश्च देवताः । दिव्यचंदनलिप्तांगाः दिव्यपुष्पैरलंकृताः ॥१४॥ नीतोपवीतहृदयः सपवित्रे चतुष्कलाः । अग्निद्र'मीध्र?) वदनांभोजाः प्रभामंडल संस्थिताः ॥१५॥ अभयाक्षस्रग्दधानाः परहस्तसरोरुहाः । एवं होमेन प्रारंभे ध्येयास्तुह्मतयो द्विजैः ॥१६॥

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768