Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 759
________________ ३२०६ भारद्वाजस्मृतिः यान्यपैतृकयोः कूर्च कर्मणोस्तत्पवित्रकम् । प्रन्थिकार्योंविशेषोऽत्र कथितस्तत्पवित्रवत् ॥१००| ब्रह्मक्षत्रियवैश्यानामेवं कूर्च उदाहृतः।। अलाभे स्वस्यकूर्चस्य यथालब्धोऽपि वा भवेत् ॥१०१।। द्वाभ्यां कुशाभ्यामथवा सपूर्वोदितलक्षणम् । कृत्वा कूर्चमलाभे तु सर्वकर्मसु योजयेत् ॥१०२॥ कूर्चादिग्रंथनाग्राणामिमास्तिस्रोऽर्थदेवताः । भवन्ति वसुधा ब्राह्मी सर्वतीर्थानि च क्रमात ॥१०३॥ आसने देवतादीनां अपि च स्नानवारिषु।। पंचगव्यप्रयोगे तु द्विजकूचं प्रयोजयेत् ॥१८४॥ अमृतेषु च गव्येषु पंचसु स्नानकर्मणि । पुण्याहक्रमतोयेषु द्विजः कूचं प्रयोजयेत् ॥१०॥ ऊर्ध्वाग्रं स्थापयेत्कूचं गलत्यां कलशेतु च । ततः संप्रोक्षणं कुर्यात्तदग्रेण द्विजोत्तमः ॥१०६।। प्रागप्रमुदगग्रंवा स्थापयेत्कूर्वमासनम् । मृष्यथं देवतार्थं च पित्र्यर्थं दक्षिणायकम् ।।१०७॥ कर्माते प्रन्थिमुत्सृज्य द्विजः कूचं परित्यजेत् । ग्रंध्या सह न तु त्याज्यं उपवीतं कदाचन ॥१०८॥ पवित्रकूर्चेयस्यायं संग्रंथ्यास्तु प्रमादतः। उपवासश्चरेदेकं उपवासक्रमं तथा ॥१०॥ कूचप्रयोगो. यत्प्रोक्तः तत्रैतत्कूचंमग्रजः । अनारतं प्रयुंजीत स्वेष्टकर्मफलाप्तये ॥११०।।

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768