Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 757
________________ ३२०४ भारद्वाजस्मृतिः कुशहस्तः पिबेत्तोयं कुशहस्तः सदाऽऽचमेत् । सप्रन्थिकुशहस्तेन न कदाचिदुपस्पृशेत् ॥७८॥ मुक्ता प्रन्थि विमुच्याऽथ तेन पीत्वा जलं सदा । तत्पवित्रं त्यजेद्भूमौ अथ मंत्रेण जातुचित् ॥७६।। विस्मृत्य यदि पात्रं तु पवित्रं विसृजेद्यदि । प्राजापात्यं चरेत्कुलछं (व्रत) तत्किल्बिषविशुद्धये ॥८॥ शमलप्रसवे स्पृष्टौ चांडालांत्यजभाषणे । पवित्रं करशाखस्थं दक्षिणश्रवणे न्यसेत् ।।८१॥ गोपुच्छरोमभिः कृत्वा पूर्वाभिहितलक्षणम् । पवित्रं धारयेद्विप्रः कर्णोपक्रमणेन वा ॥८२।। आग्नेयं ब्राह्मभेदोऽस्ति पवित्रस्याऽस्ति पूर्ववत् । तस्मात्फलविशेषोऽस्ति तथैवाशेषकर्मसु ॥८३।। रोम्णां पवित्रकरणे नियमो न कुशाम्विना । कुशरज्जोर्यथामूलप्रमाणं करयोस्तथा ॥४॥ क्रमशश्चतुर्भिरंगुल्योः पवित्रे धारयेदिमे । भुक्तिकर्मणिनान्येषु द्विजन्माऽखिलकर्मसु ॥८॥ कमाते पुनरादाय पवित्रद्वितयं द्विजः। शुचौ देशे विनिक्षिप्यारध्यादेतत्पुनः पुनः ॥८६॥ याच्छिष्टाद्युपहतं पवित्रं च्छेदितुं यदि । तदेवप्रन्थिमुत्सृज्य त्यजेदितरथा न हि ॥८॥ रोमाणि मध्यमं बध्वा सुदृढ़ च कुशैः सदा। . होमांगुलीयकेनापि मार्जनं सर्वपापहम् ॥८८॥

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768