SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ३२०२ भारद्वाजस्मृतिः एकीकृत्याऽथ वा मूलाग्राण्यनुवर्त्य प्रदक्षिणम् । तथैवाग्रेण चावेष्ट्य कुर्याग्रन्थिं यथादृढ़म् ॥१७॥ पवित्रीकरणं त्वेवं उदितं सर्ववेदिनाम् । वलयं स्वांगुलैर्मानं ग्रंथिरेखांगुलीप्रमा ॥५॥ चतुरंगुलमग्रस्य मध्यस्थानमनामिकम् । वलयं ग्रन्थिकाग्राणां ब्रह्मविष्णुमहेश्वराः ॥५६।। पवित्रस्य भवत्येते क्रमेणैवाऽधिदेवताः । अर्कोदितानां सर्वेषां पवित्राणां च लक्षणम् ॥६०॥ सामान्यमिदमित्येवं उदितं ब्रह्मवादिभिः । एतत्पवित्रमाग्नेयं नामधेयं प्रचक्षते ॥६१॥ धृत्वैव सर्वकर्माणि कुर्यात्कर्मफलाप्तये । पूर्वेतरप्रकारेण कुर्यादेकेनबहिषा ॥६२।। पवित्रं पितृकार्येषु तत्समस्तेषु भाषितम् । अन्योन्याप्रैः कुशैः कुर्यात्पवित्रं न कदाचन ॥६३॥ एकैकखंडैरपि वा यत्र कुत्र स्थितैरपि । उक्तान्दर्भान्यथापूर्व एकीकृत्यानुवर्त्य च ॥६४॥ प्रदक्षिणद्वयोरज्वोरानीयाग्रेण पूर्ववत् । अन्थि कुर्यात्तथामेदं पवित्रे ब्रह्मनामनि ॥६॥ इदं पवित्रं पूर्वोक्तात्पवित्रादधिसत्तमम् । अन्यद्ब्राह्मयथा पूर्व अनुवत्यैक बहिषा ॥६६॥ ... कुर्यात्पवित्रत्येस्याग्रन्थि ब्राह्मपवित्रवत् । मंत्रेण धारयेद्विप्रः विना मंत्रं धृतं तु तत् ।।६७॥..
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy