Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 746
________________ यज्ञापवतिधारणविधिः उपवीती ततः शुद्धः स गायत्रीशतं जपेत् । द्विजन्मनां प्रशस्त्येतन्नटे भेदे तथैव च ॥२॥ पितामहाख्या:स्वर्देवाः भूमिदेवा द्विजोत्तमाः।। उपवीतमतो धार्य नित्यं तेनैव नेतरैः। अनामिकादेवबाहु मूल देकं प्रमाणकम् ।।६३॥ ॥ इति श्रीभारद्वाज मृतौः यज्ञोपवीतधारणविधिनाम षोडशोऽध्यायः ।। अथ सप्तदशोऽध्यायः यज्ञोपवीतमन्त्रस्यऋपिच्छन्दआदिनांवर्णनम् इति यज्ञोपवीतस्येत्याहुः केचिन्महर्षयः।। अथात्राख्यातो मंत्राणां ऋषिच्छंदोऽधिदेवताः ॥ १॥ विनियोगं क्रमेणैव प्रवक्ष्यामि पृथक पृथक् । प्रणवस्य ऋषिब्रह्मा परमात्मा च देवता ॥२॥ छंदस्तु देवा गायत्री विनियोगः क्रियावशात् । देवताजपकाले तु तेऽपिहोमे हुताशनः ।।३।। ध्यानकाले परं ब्रह्म विश्वेदेवास्तु देवताः । भूरादीनां सप्तानां व्याहृनीनां यथाक्रमम् ।। ४॥ भृषिश्च्छन्दो देवताश्च प्रवक्ष्यामि प्रयत्नतः । अत्रिभृगुधकुत्सश्च पशिष्ठो गौतमस्तथा ॥५॥

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768