Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
भारद्वाजस्मृतिः ऋषिश्छंदो देवताश्च विनियोगमथात्र तु। आबहतीत्यस्य ब्रह्मा ऋषिश्छंदोऽधि देवताः ॥२७॥ अनुष्टुप्छामहावंती (?) च नियोग शस्त्रधारणे । प्रयोगकाले मंत्राणां ऋषिश्छंदोऽधिदेवताः ॥२८॥ विनियोगं च संस्मृत्वा नत्वा मंत्रानथोश्चरेत् । अज्ञात्वैतान्प्रयुङ्क्ते यः मंत्रास्तत्रक्रियासु च ॥२६॥ तस्यतत्तत्फलप्राप्तिर्द्विजस्य न भविष्यति । शास्त्रमेतचतुर्वर्गफलसाधनसाधकम् ।।३०।। यावन्ति तस्य विप्रस्य नासाध्यमिहचोपरि । अध्यायोयोद्विजश्रेष्ठैः वाच्यःश्राव्यश्व सर्वदा । ब्राह्मण्यस्थापनाथंच स्वाध्यायस्थापनाय च ॥३१॥ ॥ इति श्रीभारद्वाजस्मृतौ यज्ञोपवीतादिविधानंनाम
सप्तदशोऽध्यायः॥
अथ अष्टादशोऽध्यायः
सप्रयोजनकुशलक्षणवर्णनम् कुशस्य च पवित्रस्य लक्षणं तत्प्रयोजनं । सकलं कथ्यते स्पष्टं कर्मानुष्ठानहेतवे ।। १॥ श्रुतिस्मृतिषु याः प्रोक्ताः नित्यनैमित्तिकाः क्रियाः । कुशैविना कृताः सर्वा निष्फलाःस्युद्धिजन्मनाम् ।।२।।

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768