SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ भारद्वाजस्मृतिः ऋषिश्छंदो देवताश्च विनियोगमथात्र तु। आबहतीत्यस्य ब्रह्मा ऋषिश्छंदोऽधि देवताः ॥२७॥ अनुष्टुप्छामहावंती (?) च नियोग शस्त्रधारणे । प्रयोगकाले मंत्राणां ऋषिश्छंदोऽधिदेवताः ॥२८॥ विनियोगं च संस्मृत्वा नत्वा मंत्रानथोश्चरेत् । अज्ञात्वैतान्प्रयुङ्क्ते यः मंत्रास्तत्रक्रियासु च ॥२६॥ तस्यतत्तत्फलप्राप्तिर्द्विजस्य न भविष्यति । शास्त्रमेतचतुर्वर्गफलसाधनसाधकम् ।।३०।। यावन्ति तस्य विप्रस्य नासाध्यमिहचोपरि । अध्यायोयोद्विजश्रेष्ठैः वाच्यःश्राव्यश्व सर्वदा । ब्राह्मण्यस्थापनाथंच स्वाध्यायस्थापनाय च ॥३१॥ ॥ इति श्रीभारद्वाजस्मृतौ यज्ञोपवीतादिविधानंनाम सप्तदशोऽध्यायः॥ अथ अष्टादशोऽध्यायः सप्रयोजनकुशलक्षणवर्णनम् कुशस्य च पवित्रस्य लक्षणं तत्प्रयोजनं । सकलं कथ्यते स्पष्टं कर्मानुष्ठानहेतवे ।। १॥ श्रुतिस्मृतिषु याः प्रोक्ताः नित्यनैमित्तिकाः क्रियाः । कुशैविना कृताः सर्वा निष्फलाःस्युद्धिजन्मनाम् ।।२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy