________________
सप्रयोजनकुशस्यप्राशाग्राह्यत्ववर्णनम ३१६७ तस्मात्समस्तकार्येषु मंत्रवत्सु द्विजोत्तमः। ... प्रयतश्च प्रसन्नात्मा कुशहस्तः समाचरेत् ॥३॥ पापाह्वयः कुशब्द स्याच्छ शब्दःशमनालयः । तूणेन पापशमनं येनैतत्कुश उच्यते ॥४॥ कुशहस्तश्चरेत्नानं कुशहस्तः सदा जपेत् । जुहुयात्कुशहस्तश्च फलवाप्त्यभिलाषुकः ॥५॥ कुशस्य मूले मध्ये श्रे ब्रह्मविष्णुनहेश्वराः। सदावसन्त्यतः श्रेष्ठः कुशः सकलकर्मसु ॥६॥ नदीतीरेऽब्धितीरे तीर्थक्षेत्रे च कानने । जातः कुशः समस्तासु क्रियासु श्रेष्ठ उच्यते ॥ ७॥ तत्रापि च द्विजन्मादि द्विजात्यवनिसंभवः । तत्तज्जाति क्रियायोग्यः अलाभे वास्यमूभिजः ॥ ८॥ पाटलारुणपीताश्युः विप्रराड्वैश्यभूमयः । कृष्णावृषलभूरन्याभूर्मुहुः संकरा स्मृताः ॥६॥ द्विजोवैश्योनृपश्शूद्रो इत्ययं स्याश्चतुर्विधः ! गौरपीतारुणश्यामः सुमन्योक्तिर्यथा क्रमात् ॥१०॥ पुमांस्त्रीक्लीब इत्येवं तत्रापि त्रिविधाः स्मृताः। तत्तज्जातिक्रियास्वेव प्रयोक्तव्यः फलार्थिभिः ॥१०॥ क्लीबेनाभि प्रयोक्तव्यः स्त्रीपुंकर्मसु जातुचित् । स्त्रीपुंसावेव सर्वत्र प्रयोक्तव्या वतामतः॥१२॥ समन्ताद्धूसरोगाधः पुरुषश्चन्दनः कशः। समस्तकर्मसु श्रेष्ठः पुमान्योऽसौ फलप्रदः ॥१३॥