Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 747
________________ ३१६४ भारद्वाजस्मृतिः कश्यपश्चांगिराश्चैते मुनयोऽमी प्रकीर्तिताः । (गायत्र्ष्णगनुष्टुप् च बृहती पंक्तित्रिष्टुभः ) सप्तर्षयोऽथवैतेषां सप्तानामृषयः स्मृताः । विश्वामित्रो जमदग्निभरद्वाजोऽथ गौतमः || ६ | अत्रिर्वशिष्ठः काश्यपश्चसप्तामी मुनयः स्मृताः । छन्दांस्यथ प्रत्रक्ष्यामि सप्तानां सप्तसु क्रमात् ॥ ७ ॥ गायत्र्युष्णिगनुष्टपूच बृहती पंक्तित्रिष्टुभः । जगती चापि छंदांसि क्रमेणैषां भवेत्सदा ॥ ८ ॥ अनिर्वायुः सहस्रांशुर्वागीशो वरुणस्तथा । इन्द्रश्चविश्वेदेवाश्च देवता इति कीर्तिताः ॥ ६॥ विश्वामित्रऋषिश्छन्दोगायत्री देवता रविः । सावित्री च समाख्याताः विनियोगक्रियावशात् ॥ १०॥ ॐ (आ) मापोज्यो तिरित्येतद्गायत्री शिर उत्तमम् । ऋषिर्ब्रह्माछन्दोऽनुष्टुप्परं ब्रह्मास्य देवता ||११|| उत्तमस्य तु भागस्य भूर्भुवः सुवरोमिति । अस्य प्रजापतिर्देवः केचिदाहुर्महर्षयः ||१२|| आपो वायिदमित्यस्य ब्रह्मसूक्तस्य वै मुनिः । यजुश्छन्दो देवतांभ: विनियोगोऽभिमंत्रणे ॥ १३ ॥ आपोहिष्ठादित्र्यृचस्य सिंधुद्वीप इतिस्मृतः । छंदो गायत्रमात्रश्च देवताप्रोक्षणे विधिः ||१४|| दधिक्का पुण्नयित्यस्यवामदेव ऋषिः स्मृतः । छंदोऽनुष्टुब्देवताश्च अपस्युस्ता उदाहृताः ||१५||

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768