Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 745
________________ ३१६२ भारद्वाजस्मृतिः श्रोतः स्मार्तक्रियाः कुर्यान्नैवतत्फलभाग्भवेत् । द्विजो नष्टोपवीतश्चेदुपवीतं परं द्विजः ॥५१॥ आचम्य सन्नियभ्याऽथ मंत्रैणैव च धारयेत् । धारणात्प्रानिमज्याः सु तूष्णीतत्पुरतः स्थितः ।।२।। नवतंतुकृतं सूत्र प्रणवेनैव धारयेत् । उपवीती स भूत्वा च यत्नादाचम्य यथाविधि ।।३।। यज्ञोपवीतं विधिवत्कृत्वा दध्याद्विचक्षणः । पथावदेवोक्तपक्षतिथ्याहःकालभूमिषु ।।४।। कृत्वा यज्ञोपवीतानि धारणार्थं विनिक्षिपेत् । यथाद्विजन्मनः प्राप्त उपवीतस्य धारणम् ।।५।। समं सर्वाश्रमस्थस्य तथैव तानि धारयेत् । यज्ञोपवीतं ये दध्युर्मोहान्छुद्रादयोनराः ॥५६।। ते पापिनः पतिष्यन्ति महानरकवारिधौ। तंतुना वाऽथवान्येन कृत्वा यज्ञोपवीतवत् ॥५७।। बिभर्ति शूद्रो यदि यः साऽपि यास्यति दुर्गतिम् । पादजात्यायज्ञसूत्रं मनुजा दधते हृदि ।।८।। तांश्च धृत्वाऽथ तश्चर्मद्रव्यं नृपतिहरेत् । हतोपवीतं दृष्ट्याश्रुत्वाथ वा नृपः ।।५।। यदि तूणी समासी नरकान्दो चिरं वसेत् । अतः सर्वप्रकारेण कुर्यात्तदनुशासनम् ।।६।। इहोपरि सुखं प्राप्य धर्मशास्त्रार्थमार्गतः । विना यज्ञोपवीतं यो यद्यासीतविचक्षणः ।।६।।

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768