Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 744
________________ ३१६१ यज्ञोपवीतधारणविधिः उपवीतं द्विजश्रष्ठो जातुचित्वधनिर्मितं । चंडालरंत्यजैरुक्तौ मलमूत्रविसर्जने ॥४०॥ दक्षिणश्रवणे विप्रो यज्ञसूत्रं विनिक्षिपेत् । भार्यासंभोगसमये पुष्पकादिनान्यथा ॥४१॥ ब्रह्मसूत्रं द्विजः कुर्यान्निवीतं पृष्ठभागतः । रक्तश्लेष्मसुरामांसविण्मूत्राक्त प्रमादतः ॥४२॥ उपवीतं तदुत्सृज्य दध्यादन्यं द्विजः सदा । मलमूत्रं त्यजेद्विप्रो विस्मृत्यैवोपवीतधृक ॥४३।। उपवीतं तदुत्सृज्य दध्यादन्यं नवं तथा । महापातककृयो वा द्विजस्तत्वाप संक्षयः ॥४४॥ तावद्भवेद्यज्ञसूत्रं यदि दध्यादन्यं स्मृतम् । कोपाबलाद्वा यो विप्रो यज्ञसूत्रं छिनत्ति वै ॥४॥ नद्यां स्नात्वाऽथ गायत्री जपेदष्टसहस्रकम् । खयमन्योऽपि वा स्वस्यपरस्यैवं भवेद्यदि ॥४॥ तच्छेदपापशुद्ध्यर्थं प्रायश्चितमिदं चरेत् । प्रायश्चित्तमकुर्वाणः कुर्यान्नित्यक्रियां द्विजः॥४७॥ निष्फला तस्य सातस्मात्प्रायश्चित्तमिदं चरेत् । स्पृष्टरक्ताधिभिश्छिन्नं उपवीतं प्रमादतः ॥४८॥ सरिदद्भिस्तटाकेषु सतोः एषु विसर्जयेत् । समुद्रगश्च स्वाहेति मंत्रः प्रक्षेपणस्य तु ॥४॥ केवलं प्रणवो वाऽपि व्याहृतित्रितयन्तु वा । धृत्वोपवीतं लोभेन निषिद्धं ब्राह्मणो यदि ॥५०॥

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768