Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 751
________________ ३१६८ . भारद्वाजस्मृतिः समंताद्धरितःस्निग्धः कुशः कोमलपत्रकः । कुशः सयोषिदित्युक्तस्तत्सत्कर्मशुभप्रदः ॥१४॥ कुशः सौम्यस्तुसुमुकः कुशोयस्तवकाकृतिः । स नपुंसक इत्युक्तः क्लीबकर्मसु चोदितः ॥१५॥ वल्मीकस्थः श्मशानस्थः ऊपरस्थः तरद्भवः । अंत्यजात्यालयारात्स्थः कुशःकर्मस्वशोभनः ॥१६॥ सदाघनरसांतस्थस्सदाच्छायाप्रवर्तितः। आनीतश्च प्रयत्ना)चात्तु कुशः कर्मस्वशोभनः ॥१७॥ हीनाङ्गः (स्यात् ? स्वयं शुष्कः शुष्कायः क्रिमिद्दष्टकः । भिन्नाभ्रः सकुनुमस्तु कुशकर्मस्वशोभनः ॥१८॥ नक्तमालार्क किंपाकसलु तु दुर्गंधपार्श्वजः। महावृक्षाक्षपाश्र्वोत्थस्तच्छायास्थस्त्वशोभनः ॥१।। पलाशाश्वत्थखदिरवटवृक्षसमीपजः। बिल्ववैकुकतांतस्थः तच्छायास्थः कुशशुभः ॥२०॥ अनोकानामन्येषां समर्यातः समुद्भवः । च्छायासमुद्भवकुशो मध्यमः सर्वकर्मसु ॥२१॥ स्नात्वा संध्यासपर्यादि नित्यकर्म समाप्य च । नित्यहोमं ततः कृत्वा तस्मिंसप्ताचिपि द्विजः।।२२।। दानं प्रणवसंयुक्त व्याहृत्या च समस्तया । निष्टप्यभवनात्याची अपि स्यान्चोत्तरां दिशम् ॥२३॥ निष्क्रम्याद्युक्तशेषेषु यास्तिकेशसमुछयः। तत्र गत्वा स्वचरणौ हस्तो प्रक्षाल्य वाग्यतः ॥२४॥

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768