________________
भारद्वाजस्मृतिः महानदी पुण्यतीर्थ सलिलं चोत्तमोत्तमम् । नदीधनरसं मेध्यं इतरंतु कनीयसम् ॥३६॥ तत्र स्वादूदकं श्रेष्ठं काषायांभस्तुमध्यमम् । इतरत्सलिलं वारि कनीयसमुदाहृतम् ॥४०॥ सकीटकं स दुर्गधं हेयवस्तु समन्वितं । समृत्तिकं यत्सलिलं तदयोग्यमिति स्मृतम् ॥४१।। श्लेष्मरक्तसुरामांससर्पिर्मात्रास्थिशिरोरुहैः । एतानि हो(हे)यवस्तूनि न संस्पृश्यानि हि कचित् ॥४२॥ स्वच्छं सुशीतलं स्वादु लघुसत्पात्रपूरितम् । पानीप्यं तत्तु जानीयात्सलिलं श्रेष्ठमुच्यते ॥४॥ चंदनागरुकर्पूरचंपकोसीरकुंकुमैः। वस्ति(संशोधितं यत्तन्नदीतोयं मनोहरम् ॥४४॥ मूलेनाष्टोत्तरशतं वार्येतदभिमर्त्य च। सकूचं नापयेद्देवीं सर्वपुण्यफलं लभेत् ॥४॥ निवारतंडुलाः श्रेष्ठाः मध्यमा व्रीहितंडुलाः । होमोक्तधान्या जायंते तंडुलाःस्युः कनीयसः ॥४६।। अखण्डा निस्तुषा श्रेष्ठाः श्वेताःस्निग्धाश्च शोभनाः। सतुषा बहुवर्णाश्च कणाम्ना नैव शोभ नाः ॥४७॥ आढ़कप्रमिताः श्रेष्ठाः तदर्धा मध्यमाःस्मृताः । कनीयसस्तदर्धाश्च नैवेद्यपरिकल्पने ॥४८॥ क्लिन्नान्नं तंडुलान्नं चाभिः सटालंवणोदनं । सर्वगान्नं घटान्नश्च नैवेद्य परिकल्पयेत् ॥४॥