Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 741
________________ ३१८८ भारद्वाजस्मृतिः अथ द्विराचमेदेवं सदैव ब्रह्मचारिणः । विना यज्ञोपवीतेन द्विजातीनां न चेतरत् ॥ ७॥ गृहस्वस्य वनस्थस्य सूत्रं प्रति पुनः पुनः । मंत्रोच्चारणमाताम्रा(मानातं) द्वितयं क्रमशःस्मृतम् ॥ ८ ॥ अनेनोक्तप्रकारेण धारयेयुर्द्विजाः सदा । अनेन वेदाः कर्माणि यज्ञाश्च बहुदक्षिणाः ॥६॥ विना यज्ञोपवीतेन द्विजातीनां न चेतरत् । जपहोमार्चनस्नानस्वाध्यायाहारकर्मसु ॥१०॥ वृद्दा(द्धा) तिथिगुरुप्राप्तौ उपवीतो भवेद्विजः । ब्रह्मादि देवताःस्थिसौ( सर्वे ) देवताश्चेतरा अपि ॥१श उपवीतधरास्तस्माद्धार्यमेतद्विजातिभिः । आज्ञावन्तो वशिष्ठाद्याः ऋषयश्चतपोऽधिकाः ॥१२॥ धृत्वा चैतत्प्रसादेन जीवंतस्ते बलान्विताः। नियमेन सदा धायं उपवीतं द्विजोत्तमैः ॥१३॥ कदाचिदपि नो धायं शूद्ररितरजातिभिः। .. आमेखलामर्जनं वस्त्रं दंडं छत्रं कमंडलुम् ॥१४॥ स्वस्वगृह्योदितैमत्रैः द्विजोदध्याद्विचक्षणः । अज्ञाता यदि चेन्मंत्राः स्वस्वगृह्य षु चोदिताः॥१५॥ उपवीतमुखानां वै तेषां संधारणे द्विजैः । केवलं प्रणयो वाऽपि व्याहृतित्रितयं तु वा ॥१६॥ स्यातां विप्रादिवर्णेषु द्वावेतौसर्वशाखिनाम् । प्रणवः सर्वमन्त्राणां पितेत्याहुमहर्षयः ॥१७॥

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768