Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 735
________________ ३१ ८२ भारद्वाजस्मृतिः सूचनात्स्वधरस्यैव सूत्रमित्यभिधीयते । यज्ञोपयज्ञयागांगोगोपवीतं (१) लक्षणाह्वयम् ॥६६।। यज्ञोपवीतमित्युक्त तस्य संरक्षणतः सदा । अनिष्टोमादयो यज्ञाः एतत्सम्यद्विजन्मनाम् ।।१००।। सततं सूचनादेतद्यज्ञसूत्रमिति स्मृतम् । रुद्रश्चतुर्मुखो विष्णुरप्यन्येऽमृतभोजनाः ॥१०१।। शश्वद्धधत्यतोदस्तद्देवरक्षेति चोच्यते । भूरितेजोवायुश्चप्राणाआत्मत्रयं तथा ॥१०॥ क्रमाद्भवंति तंतूनां सदानामधिदेवता। . ग्रंथित्रयस्याधिपाःस्युः पितामहहरीश्वराः ॥१०३।। यज्ञोपवीतकारस्य परं ब्रह्मादिदैवतम् । तन्तुग्राहो ग्रन्थिकृतौ सूत्रसन्धारणेऽपि च ॥१०४।। देवानेतान्हृदि स्मृत्वा नमस्कुर्वीत भक्तितः। एकैकमुपवीतं स्यादात्यंताश्रमिणोर्द्वयोः ॥१०॥ दशाष्टौ वा गृहस्थस्य चत्वारि वनचारिणः । एकमेव यतेः सूत्रं तथैव ब्रह्मचारिणः ॥१०६।। .सौत्तरीयं गृहस्थस्य तथैव वनचारिणः । कृष्णसारंगवस्तानां अजनं क्रमशःस्मृतम् ॥१०७॥ सरोभूनूतनंस्निग्धंसत्कृष्णधवलं शुभम् । अदृढं नोपयुक्त यत् प्रशस्तमजनं स्मृतम् ।।१०८।। स्वर्णेन रत्नैरुचिरं वध्याचाक्षिप्रियं यथा । धार्य क्षत्रियपुत्रेण सत्पुरोहितसूमुना ॥१.०६।।

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768