________________
३१ ८२
भारद्वाजस्मृतिः सूचनात्स्वधरस्यैव सूत्रमित्यभिधीयते । यज्ञोपयज्ञयागांगोगोपवीतं (१) लक्षणाह्वयम् ॥६६।। यज्ञोपवीतमित्युक्त तस्य संरक्षणतः सदा । अनिष्टोमादयो यज्ञाः एतत्सम्यद्विजन्मनाम् ।।१००।। सततं सूचनादेतद्यज्ञसूत्रमिति स्मृतम् । रुद्रश्चतुर्मुखो विष्णुरप्यन्येऽमृतभोजनाः ॥१०१।। शश्वद्धधत्यतोदस्तद्देवरक्षेति चोच्यते । भूरितेजोवायुश्चप्राणाआत्मत्रयं तथा ॥१०॥ क्रमाद्भवंति तंतूनां सदानामधिदेवता। . ग्रंथित्रयस्याधिपाःस्युः पितामहहरीश्वराः ॥१०३।। यज्ञोपवीतकारस्य परं ब्रह्मादिदैवतम् । तन्तुग्राहो ग्रन्थिकृतौ सूत्रसन्धारणेऽपि च ॥१०४।। देवानेतान्हृदि स्मृत्वा नमस्कुर्वीत भक्तितः। एकैकमुपवीतं स्यादात्यंताश्रमिणोर्द्वयोः ॥१०॥ दशाष्टौ वा गृहस्थस्य चत्वारि वनचारिणः । एकमेव यतेः सूत्रं तथैव ब्रह्मचारिणः ॥१०६।। .सौत्तरीयं गृहस्थस्य तथैव वनचारिणः । कृष्णसारंगवस्तानां अजनं क्रमशःस्मृतम् ॥१०७॥ सरोभूनूतनंस्निग्धंसत्कृष्णधवलं शुभम् । अदृढं नोपयुक्त यत् प्रशस्तमजनं स्मृतम् ।।१०८।। स्वर्णेन रत्नैरुचिरं वध्याचाक्षिप्रियं यथा । धार्य क्षत्रियपुत्रेण सत्पुरोहितसूमुना ॥१.०६।।