________________
यज्ञोपवीतविधिवर्णनम् ४०८३ यज्ञोपवीतं संधार्य जातुचिद्ब्रह्मचारिणा । विप्रस्यशालीरशना मौर्वी भूपस्य मेखला ॥११०।। अपि सूत्रकृतं तच्च वैश्यस्य ब्रह्मचारिणः। विप्रादीनां त्रयाणां च त्रिवृता त्रिप्रदक्षिणा ॥११॥ त्रिवृद्मन्थिरितिप्रोक्ता मेखला स्मृतिचोदिता। कौपीनधारणायाऽथ शुल्वं कृत्वोपवीतवत् ॥११२॥ यतिश्चब्रह्मचारी च दध्यातां वै प्रदक्षिणम् । नग्नत्वपरिहाराय गृहस्थवर्णिनस्त(नां?) था ॥११३।। तथैवधारयेयातां अवश्यं केवलं च तौ। तालद्वितयविस्तारतद्वद्विगुणमायतम् ॥११४॥ तत्कौपीनमिति प्रोक्त स्वीयहस्तप्रमाणतः । सव्यं पार्श्वद्वयदशासमेतं सूक्ष्ममुत्तमम् ॥११॥ विप्रस्य वासः काषायं मञ्जिष्ठ क्षत्रियस्य तु । वैश्यस्य पीतमित्युक्त क्रमेण ब्रह्मचारिणः ॥११६।। गृहस्थस्यनितं वस्त्रं वानप्रस्थस्यचापितत् । .. काशायमुत्तरासंगं यतेराहुश्च नूतनम् ॥११७।। द्वादशांगुलविस्तारं स्वस्ववस्त्रं दशांगुलम् । यज्ञसूत्रायतं यत्तदुत्तरीयमिति स्मृतम् ॥११८॥ शुक्लांबरं गृहस्थस्य विप्रस्याऽथ महीपतेः । पट्टानि नववस्त्राणि वैश्यस्य च तथैव हि ।।११।। कुसुंभरक्तवस्त्राणि चोदितानि महीतले । वैश्यस्य पीतवस्त्राणीत्याहुः केचिन्महर्षयः ।।१२०।।